Atharvashiras
अथ कस्मादुच्यत ओङ्कारो यस्मादुच्चार्यमाण एव प्राणानूर्ध्वमुत्क्रामयति तस्मादुच्यते ओङ्कारः । अथ कस्मादुच्यते प्रणवः यस्मादुच्चार्यमाण एव ऋग्यजुःसामाथर्वाङ्गिरसं ब्रह्म ब्राह्मणेभ्यः प्रणामयति नामयति च तस्मादुच्यते प्रणवः । अथ कस्मादुच्यते सर्वव्यापी यस्मादुच्चार्यमाण एव सर्वाँल्लोकान्व्याप्नोति स्नेहो यथा पललपिण्डमिव शान्तरूपमोतप्रोतमनुप्राप्तो व्यतिषक्तश्च तस्मादुच्यते सर्वव्यापी । अथ कस्मादुच्यतेऽनन्तो यस्मादुच्चार्यमाण एव तिर्यगूर्ध्वमधस्ताच्चास्यान्तो नोपलभ्यते तस्मादुच्यतेऽनन्तः । अथ कस्मादुच्यते तारं यस्मादुच्चार्यमाण एव गर्भजन्मव्याधिजरामरणसंसारमहाभयात्तारयति त्रायते च तस्मादुच्यते तारम् । अथ कस्मादुच्यते शुक्लं यस्मादुच्चार्यमाण एव क्लन्दते क्लामयति च तस्मादुच्यते शुक्लम् । अथ कस्मादुच्यते सूक्ष्मं यस्मादुच्चार्यमाण एव सूक्ष्मो भूत्वा शरीराण्यधितिष्ठति सर्वाणि चाङ्गान्यभिमृशति तस्मादुच्यते सूक्ष्मम् । अथ कस्मादुच्यते वैद्युतं यस्मादुच्चार्यमाण एव व्यक्ते महति तमसि द्योतयति तस्मादुच्यते वैद्युतम् । अथ कस्मादुच्यते परं ब्रह्म यस्मात्परमपरं परायणं च बृहद्बृहत्या बृंहयति तस्मादुच्यते परं ब्रह्म । अथ कस्मादुच्यते एकः यः सर्वान्प्राणान्संभक्ष्य संभक्षणेनाजः संसृजति विसृजति तीर्थमेके व्रजन्ति तीर्थमेके दक्षिणाः प्रत्यञ्च उदञ्चः प्राञ्चोऽभिव्रजन्त्येके तेषां सर्वेषामिह सद्गतिः साकं स एको भूतश्चरति प्रजानां तस्मादुच्यत एकः । अथ कस्मादुच्यते रुद्रः यस्मादृषिभिर्नान्यैर्भक्तैर्द्रुतमस्य रूपमुपलभ्यते तस्मादुच्यते रुद्रः । अथ कस्मादुच्यते ईशानः यः सर्वान्देवानीशते ईशानीभिर्जननीभिश्च परमशक्तिभिः । अमित्वा शूर नो नुमो दुग्धा इव धेनवः । ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थिष इति तस्मादुच्यते ईशानः । अथ कस्मादुच्यते भगवान्महेश्वरः यस्माद्भक्ता ज्ञानेन भजन्त्यनुगृह्णाति च वाचं संसृजति विसृजति च सर्वान्भावान्परित्यज्यात्मज्ञानेन योगेश्वर्येण महति महीयते तस्मादुच्यते भगवान्महेश्वरः । तदेतद्रुद्रचरितम् ॥४॥
अथ । कस्मात् उच्यते । ओङ्कारः । यस्मात् उच्चार्यमाणः एव । प्राणान् ऊर्ध्वम् उत्क्रामयति । तस्मात् उच्यते । ओङ्कारः । अथ । कस्मात् उच्यते । प्रणवः । यस्मात् उच्चार्यमाणः एव । ऋक्-यजुः-साम-अथर्व-अङ्गिरसम् । ब्रह्म । ब्राह्मणेभ्यः । प्रणामयति । नामयति च । तस्मात् उच्यते । प्रणवः । अथ । कस्मात् उच्यते । सर्व-व्यापी । यस्मात् उच्चार्यमाणः एव । सर्वान् लोकान् व्याप्नोति । स्नेहः यथा । पलल-पिण्डम् इव । शान्त-रूपम् । ओत-प्रोतम् । अनुप्राप्तः । व्यतिषक्तः च । तस्मात् उच्यते । सर्व-व्यापी । अथ । कस्मात् उच्यते । अनन्तः । यस्मात् उच्चार्यमाणः एव । तिर्यक् ऊर्ध्वम् अधस्तात् च । अस्य अन्तः न उपलभ्यते । तस्मात् उच्यते । अनन्तः । अथ । कस्मात् उच्यते । तारम् । यस्मात् उच्चार्यमाणः एव । गर्भ-जन्म-व्याधि-जरा-मरण-संसार-महा-भयात् । तारयति । त्रायते च । तस्मात् उच्यते । तारम् । अथ । कस्मात् उच्यते । शुक्लम् । यस्मात् उच्चार्यमाणः एव । क्लन्दते । क्लामयति च । तस्मात् उच्यते । शुक्लम् । अथ । कस्मात् उच्यते । सूक्ष्मम् । यस्मात् उच्चार्यमाणः एव । सूक्ष्मः भूत्वा । शरीराणि अधितिष्ठति । सर्वाणि च अङ्गानि अभिमृशति । तस्मात् उच्यते । सूक्ष्मम् । अथ । कस्मात् उच्यते । वैद्युतम् । यस्मात् उच्चार्यमाणः एव । व्यक्ते महति तमसि । द्योतयति । तस्मात् उच्यते । वैद्युतम् । अथ । कस्मात् उच्यते । परम् ब्रह्म । यस्मात् परम्-अपरम् परायणम् च । बृहद् बृहत्या । बृंहयति । तस्मात् उच्यते । परम् ब्रह्म । अथ । कस्मात् उच्यते । एकः । यः सर्वान् प्राणान् संभक्ष्य । संभक्षणेन । अजः । संसृजति । विसृजति । तीर्थम् एके व्रजन्ति । तीर्थम् एके । दक्षिणाः प्रत्यञ्चः उदञ्चः प्राञ्चः । अभिव्रजन्ति एके । तेषाम् सर्वेषाम् इह । सद्गतिः । साकम् सः एकः । भूतः चरति । प्रजानाम् । तस्मात् उच्यते । एकः । अथ । कस्मात् उच्यते । रुद्रः । यस्मात् ऋषिभिः न अन्यैः भक्तैः । द्रुतम् अस्य रूपम् उपलभ्यते । तस्मात् उच्यते । रुद्रः । अथ । कस्मात् उच्यते । ईशानः । यः सर्वान् देवान् ईशते । ईशानीभिः जननीभिः च । परम-शक्तिभिः । अमित्वा शूर नः नुमः । दुग्धाः इव धेनवः । ईशानम् अस्य जगतः स्वः-दृशम् । ईशानम् इन्द्र तस्थिष इति । तस्मात् उच्यते । ईशानः । अथ । कस्मात् उच्यते । भगवान् महेश्वरः । यस्मात् भक्ताः ज्ञानेन भजन्ति । अनुगृह्णाति च । वाचम् संसृजति विसृजति च । सर्वान् भावान् परित्यज्य । आत्म-ज्ञानेन । योग-ईश्वर्येण । महति महीयते । तस्मात् उच्यते । भगवान् महेश्वरः । तत् एतत् रुद्र-चरितम् ॥४॥
atha kasmād ucyata oṅkāro yasmād uccāryamāṇa eva prāṇān ūrdhvam utkrāmayati tasmād ucyate oṅkāraḥ | atha kasmād ucyate praṇavaḥ yasmād uccāryamāṇa eva ṛgyajuḥsāmātharvāṅgirasaṃ brahma brāhmaṇebhyaḥ praṇāmayati nāmayati ca tasmād ucyate praṇavaḥ | atha kasmād ucyate sarvavyāpī yasmād uccāryamāṇa eva sarvāṃl lokān vyāpnoti sneho yathā palalapiṇḍam iva śāntarūpam otaprotam anuprāpto vyatiṣaktaś ca tasmād ucyate sarvavyāpī | atha kasmād ucyate ’nanto yasmād uccāryamāṇa eva tiryag ūrdhvam adhastāc cāsyānto nopalabhyate tasmād ucyate ’nantaḥ | atha kasmād ucyate tāraṃ yasmād uccāryamāṇa eva garbhajanmavyādhijarāmaraṇasaṃsāramahābhayāt tārayati trāyate ca tasmād ucyate tāram | atha kasmād ucyate śuklaṃ yasmād uccāryamāṇa eva klandate klāmayati ca tasmād ucyate śuklam | atha kasmād ucyate sūkṣmaṃ yasmād uccāryamāṇa eva sūkṣmo bhūtvā śarīrāṇy adhitiṣṭhati sarvāṇi cāṅgāny abhimṛśati tasmād ucyate sūkṣmam | atha kasmād ucyate vaidyutaṃ yasmād uccāryamāṇa eva vyakte mahati tamasi dyotayati tasmād ucyate vaidyutam | atha kasmād ucyate paraṃ brahma yasmāt param aparaṃ parāyaṇaṃ ca bṛhad bṛhatyā bṛṃhayati tasmād ucyate paraṃ brahma | atha kasmād ucyate ekaḥ yaḥ sarvān prāṇān saṃbhakṣya saṃbhakṣaṇenājaḥ saṃsṛjati visṛjati tīrtham eke vrajanti tīrtham eke dakṣiṇāḥ pratyañca udāñcaḥ prāñco ’bhivrajanty eke teṣāṃ sarveṣām iha sadgatiḥ sākaṃ sa eko bhūtaś carati prajānāṃ tasmād ucyata ekaḥ | atha kasmād ucyate rudraḥ yasmād ṛṣibhir nānyair bhaktair drutam asya rūpam upalabhyate tasmād ucyate rudraḥ | atha kasmād ucyate īśānaḥ yaḥ sarvān devān īśate īśānībhiḥ jananībhiś ca paramaśaktibhiḥ | amitvā śūra no numo dugdhā iva dhenavaḥ | īśānam asya jagataḥ svardṛśam īśānam indra tasthiṣa iti tasmād ucyate īśānaḥ | atha kasmād ucyate bhagavān maheśvaraḥ yasmād bhaktā jñānena bhajanty anugṛhṇāti ca vācaṃ saṃsṛjati visṛjati ca sarvān bhāvān parityajyātmajñānena yogeśvaryeṇa mahati mahīyate tasmād ucyate bhagavān maheśvaraḥ | tad etad rudracaritam ||4||
आता याला ‘ओंकार’ का म्हणतात? कारण उच्चार होताच तो प्राणांना ऊर्ध्वगामी करतो; म्हणून ओंकार म्हणतात. मग ‘प्रणव’ का म्हणतात? कारण उच्चार होताच ऋग्-यजुः-साम-अथर्वाङ्गिरस आणि ब्रह्म यांना ब्राह्मणांपुढे प्रणाम व नम्रता आणतो; म्हणून प्रणव म्हणतात. मग ‘सर्वव्यापी’ का म्हणतात? कारण उच्चार होताच तो सर्व लोकांत व्यापतो—जसा स्नेह भूशीतल्या पिंडात मुरतो—शांतरूप, ओतप्रोत, सर्वत्र पोहोचलेला व अंतर्भूत; म्हणून सर्वव्यापी म्हणतात. मग ‘अनंत’ का म्हणतात? कारण उच्चार होताच त्याचा अंत तिर्यक्, ऊर्ध्व वा अधः कुठेही सापडत नाही; म्हणून अनंत म्हणतात. मग ‘तार’ का म्हणतात? कारण उच्चार होताच तो गर्भ-जन्म-व्याधि-जरा-मरण या संसारमहाभयातून तारतो व रक्षण करतो; म्हणून तार म्हणतात. मग ‘शुक्ल’ का म्हणतात? कारण उच्चार होताच तो क्लेद उत्पन्न करतो व क्लांतीही करतो (मलिनता शिथिल करतो); म्हणून शुक्ल म्हणतात. मग ‘सूक्ष्म’ का म्हणतात? कारण उच्चार होताच तो सूक्ष्म होऊन देहांचे अधिष्ठान होतो व सर्व अंगांना स्पर्श करतो; म्हणून सूक्ष्म म्हणतात. मग ‘वैद्युत’ का म्हणतात? कारण उच्चार होताच तो व्यक्त महान् तमात प्रकाश पाडतो; म्हणून वैद्युत म्हणतात. मग ‘परं ब्रह्म’ का म्हणतात? कारण तो पर-अपर व परम आश्रय होऊन बृहद् ला बृहद् ने वाढवितो; म्हणून परं ब्रह्म म्हणतात. मग ‘एक’ का म्हणतात? कारण अज सर्व प्राण ग्रासून ग्रसनाने सृष्टी-विसृष्टी करतो; कोणी तीर्थाकडे, कोणी दक्षिण-पश्चिम-उत्तर-पूर्वेकडे जातात—सर्वांची सद्गती येथे त्या एकासहच आहे; म्हणून एक म्हणतात. मग ‘रुद्र’ का म्हणतात? कारण ऋषी व भक्त त्याचे रूप शीघ्र प्राप्त करतात; म्हणून रुद्र म्हणतात. मग ‘ईशान’ का म्हणतात? कारण तो ईशानी-जननी इत्यादी पराशक्तींनी सर्व देवांवर अधिराज्य करतो; म्हणून ईशान म्हणतात. मग ‘भगवान महेश्वर’ का म्हणतात? कारण भक्त ज्ञानाने भजन करतात, तो अनुग्रह करतो; वाणीची सृष्टी व संहार करतो; सर्व भाव त्यागून आत्मज्ञान व योगेश्वर्याने महत् मध्ये महनीय होतो; म्हणून भगवान महेश्वर म्हणतात. हेच रुद्रचरित॥४॥
Now, why is it called Oṅkāra? Because, when pronounced, it causes the vital breaths to rise upward; therefore it is called Oṅkāra. Now, why is it called Praṇava? Because, when pronounced, it makes the Ṛg-, Yajus-, Sāma-, and Atharva-Aṅgiras (Vedas), and Brahman, bow down before the brāhmaṇas; therefore it is called Praṇava. Now, why is it called All-pervading? Because, when pronounced, it pervades all worlds—like oil (pervades) a lump of bran—peaceful in form, woven in and out, fully reached and interpenetrating; therefore it is called All-pervading. Now, why is it called Infinite? Because, when pronounced, its end is not found sideways, above, or below; therefore it is called Infinite. Now, why is it called Tāra? Because, when pronounced, it carries across and protects from the great fear of saṃsāra—womb, birth, disease, old age, death; therefore it is called Tāra. Now, why is it called White? Because, when pronounced, it moistens and also fatigues (i.e., dissolves/weakens); therefore it is called White. Now, why is it called Subtle? Because, when pronounced, becoming subtle it presides over bodies and touches all limbs; therefore it is called Subtle. Now, why is it called Lightning-like? Because, when pronounced, it illumines the manifest great darkness; therefore it is called Lightning-like. Now, why is it called Supreme Brahman? Because it enlarges (bṛṃhayati) the great by the great, and is the supreme, the beyond, and the final refuge; therefore it is called Supreme Brahman. Now, why is it called One? Having consumed all breaths, the unborn creates and emits; some go to a ford, some to a ford; some go southward, westward, northward, eastward—of them all here there is a good course; together that One being moves among creatures; therefore it is called One. Now, why is it called Rudra? Because by seers and by other devotees its form is quickly attained; therefore it is called Rudra. Now, why is it called Īśāna? He rules all the gods with the ruling powers, the mother-powers, the supreme energies… (quoting) ‘Īśāna of this world, visible in heaven; Īśāna, O Indra, you have stood’; therefore it is called Īśāna. Now, why is it called the Blessed Lord Maheśvara? Because devotees worship with knowledge; he shows grace; he projects and withdraws speech; abandoning all states, by Self-knowledge and yogic lordship he becomes great in the Great; therefore it is called the Blessed Lord Maheśvara. This is the account of Rudra.