उ॒प॒या॒मगृ॑हीतोऽसि॒ बृह॒स्पति॑सुतस्य देव सोम त॒ इन्दो॑रिन्द्रि॒याव॑त॒: पत्नी॑वतो॒ ग्रहाँ॑२ ऋध्यासम् । अ॒हं प॒रस्ता॑द॒हम॒वस्ता॒द्यद॒न्तरि॑क्षं॒ तदु॑ मे पि॒ताऽभू॑त् । अ॒हᳪ सूर्य॑मुभ॒यतो॑ ददर्शा॒हं दे॒वानां॑ पर॒मं गुहा॒ यत्
upayā́magṛhīto ’si bṛ́haspátisutasya deva soma te índor indriyā́vataḥ patnī́vato gráhān ṛdhyāsam | ahám parástād ahám avástād yád antárikṣaṃ tád u me pitā́ ’bhūt | aháṃ sū́ryam ubhayató dadarśa aháṃ devā́nāṃ paramáṃ guhā́ yát |
तू उपयामाने ग्रहण केलेला आहेस. हे देव सोम! बृहस्पति-पुत्राचा, हे इन्दो! इंद्रिय-बलयुक्त, पत्नीवंत ग्रहांमध्ये—मला सिद्धी लाभो. मी वर आहे, मी खाली आहे; जे अंतरिक्ष आहे तेच माझे पिता झाले. मी सूर्याला दोन्ही बाजूंनी पाहिले; देवांचे परम (रहस्य) मी गुहेत प्राप्त केले.
उप-याम-गृहीतः असि । बृहस्पति-सुतस्य । देव । सोम । ते । इन्दोः । इन्द्रिय-आवत: । पत्नी-वत: । ग्रहान् । ऋध्यासम् । अहम् परस्तात् । अहम् अवस्तात् । यत् अन्तरिक्षम् । तत् उ मे पिता अभूत् । अहम् सूर्यम् उभयतः ददर्श । अहम् देवानाम् परम् गुहा यत् ।