घृ॒तेना॒ञ्जन्त्सं प॒थो दे॑व॒याना॑न् प्रजा॒नन् वा॒ज्यप्ये॑तु दे॒वान् । अनु॑ त्वा सप्ते प्र॒दिश॑: सचन्ताᳪ स्व॒धाम॒स्मै॒ यज॑मानाय धेहि ।
ghṛténa añján sáṃ pathó devayā́nān prajā́nann vājī ápy etu devā́n | ánu tvā sapté pradíśaḥ sacantāṃ svadhā́m asmaí yájamānāya dhehi |
घृताने अभ्यंजन करून, देवांकडे नेणारे ‘देवयान’ मार्ग नीट जाणून, तो तेजस्वी (वाजिन्) देवांकडे प्रस्थान करो. तुझ्या मागोमाग सातही दिशा/प्रदेश अनुसरण करो; या यजमानासाठी स्वधा प्रदान कर.
घृ॒तेन । अ॒ञ्जन् । सम् । प॒थः । दे॒व॒याना॑न् । प्र॒जा॒नन् । वा॒जी । अपि । ए॒तु । दे॒वान् । अनु॑ । त्वा । सप्ते । प्र॒दिशः॑ । स॒च॒न्ताम् । स्व॒धाम् । अ॒स्मै । यज॑मानाय । धेहि ।