दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीर्व॑यो॒धसं॒ पति॒मिन्द्र॑मवर्धयन् । जग॑त्या॒ छन्द॑सेन्द्रि॒यᳪ शूष॒मिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑
de·vīs tisrás tisró de·vīr vayo·dhásaṁ pátiṁ índram avardhayan | jagátyā́ chándasendriyáṁ śū́ṣam índre váyo dádhad vasu·váne vasu·dhéyasya vyántu yája
तीन देवी—तीन दैवी शक्ती—वयो-स्थापक आपल्या पती इंद्राला वाढवोत. जगती छंदाने (त्यांनी) इंद्रिय-शक्ती वाढविली; इंद्रामध्ये शूष (प्रचंड बल) व वयस् (वीर्य) धारण करून, वसु-प्राप्तीसाठी, धन-स्थापनेसाठी—ते ते कार्य सिद्ध करो; तू यजन कर.
दे॒वीः । ति॒स्रः । ति॒स्रः । दे॒वीः । अ॒व॒यो॒धस॑म् । पति॑म् । इन्द्र॑म् । अ॒व॒र्ध॒य॒न् । जग॑त्या । छन्द॑सा । इन्द्रि॒यम् । शूष॑म् । इन्द्रे॑ । वयः॒ । दध॑त् । वसु॒वने॑ । वसु॒धेय॑स्य । व्य॒न्तु॒ । यज॑