होता॑ यक्ष॒दिडा॑भि॒रिन्द्र॑मीडि॒तमा॒जुह्वा॑न॒मम॑र्त्यम् । दे॒वो दे॒वै: सवी॑र्यो॒ वज्र॑हस्तः पुरन्द॒रो वेत्वाज्य॑स्य॒ होत॒र्यज॑
hótā yakṣad iḍā́bhir índram īḍitám ā́juhvānám ámartyam | devó deváiḥ savī́ryo vájra-hastaḥ purandaráḥ vétv ā́jyasya hótar yája
होता इडांसह इंद्राचे यजन करो—स्तुत्य, आहूत, अमर्त्य इंद्राचे। देवांसह तो देव, सवीर्य, वज्रहस्त, पुरंदर—तो आज्य-आहुतीस येवो। हे होता, यज!
होता यक्षत् । इडाभिः । इन्द्रम् । ईडितम् । आजुह्वानम् । अमर्त्यम् । देवः । देवैः । सवीर्यः । वज्रहस्तः । पुरन्दरः । वेतु । आज्यस्य । होतः । यज