दे॒व इन्द्रो॒ नरा॒शᳪस॑स्त्रिवरू॒थस्त्रि॑बन्धु॒रो दे॒वमिन्द्र॑मवर्धयत् । श॒तेन॑ शितिपृ॒ष्ठाना॒माहि॑तः स॒हस्रे॑ण॒ प्र व॑र्तते मि॒त्रावरु॒णेद॑स्य हो॒त्रमर्ह॑तो॒ बृह॒स्पति॑ स्तो॒त्रम॒श्विनाध्व॑र्यवं वसु॒वने॑ वसु॒धेय॑स्य वेत्तु॒ यज॑
dēvá índro narā́śaṃsas trivarū́thas tribandhúro dēvám índram avardhayat | śaténa śitipṛṣṭhā́nām āhítaḥ sahásreṇa prá vartate mitrā́varuṇédasya hótram árhato bṛ́haspáti stótram aśvínādhvaryaváṃ vasuváne vasudhḗyasya véttu yája
देव इंद्र, नराशंस रूपाने, त्रिविध-रक्षित व त्रिविध-बंधुर असा होऊन, देव इंद्रालाच बलवान करतो. शंभर शितिपृष्ठ (चित्तेदार पाठीच्या) अश्वांसह स्थापित होऊन, सहस्रासह तो पुढे प्रवर्ततो. मित्र-वरुणांचे होतृ-कर्म अर्ह (योग्य) आहे; बृहस्पति स्तोत्र आहे; अश्विनौ अध्वर्यु-कर्म आहेत. वसुवनात वसुधेयस्य वेत्ता व्हावा—यज्।
दे॒वः । इन्द्रः॑ । नरा॒शंसः॑ । त्रि-वरू॒थः । त्रि-बन्धु॒रः । दे॒वम् । इन्द्र॑म् । अ॒व॒र्ध॒य॒त् । श॒तेन॑ । शि॒ति॒पृ॒ष्ठाना॑म् । आहि॑तः । स॒हस्रे॑ण । प्र । व॒र्त॒ते । मि॒त्रा-वरु॒णयोः॑ । इ॒दस्य॑ । हो॒त्रम् । अर्ह॑तः । बृह॒स्पति॑ः । स्तो॒त्रम् । अ॒श्विना॑ । अ॒ध्व॒र्य॒वम् । व॒सु॒वने॑ । वसु॒धेय॑स्य । वे॒त्तु॒ । यज॑