यद्वा॒जिनो॒ दाम॑ स॒न्दान॒मर्व॑तो॒ या शी॑र्ष॒ण्या॒ रश॒ना रज्जु॑रस्य । यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये तृण॒ᳪ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु
yád vājíno dā́ma sandā́nam árvato yā́ śīrṣaṇyā́ raśánā rájjur asya | yád vā ghā́syá prábhṛtamā́ ’sye tṛ́ṇaṃ sárvā tā́ te ápi devéṣv astu ||
वाजिन् (वेगवान) अश्वाचे दाम (लगाम) व सन्दान (बंधन), त्याची शिरोबंध रशना व रज्जु (दोरा), आणि त्याच्या मुखी घातलेले श्रेष्ठ घास-तृण—ते सर्व, तेच सर्व, देवांमध्ये तुझे होवो.
यत् । वाजिनः । दाम । सन्दानम् । अर्वतः । या । शीर्षण्या । रशना । रज्जुः । अस्य । यत् । वा । घास्य । प्रभृतमा । अस्ये । तृणम् । सर्वाः । ताः । ते । अपि । देवेषु । अस्तु