अदि॑तिर्द्यौ॒रदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः । विश्वे॑ दे॒वा अदि॑ति॒: पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम्
áditir dyáur áditir ántarikṣam áditir mátā sá pitá sá putráḥ | víśve devá áditiḥ páñca jánā áditir játam ádir janítvam
अदिती ही द्यौ (स्वर्ग) आहे; अदिती ही अंतरिक्ष आहे; अदिती ही माता आहे—तीच पिता, तीच पुत्र. अदितीच सर्व देव आहेत; अदितीच मनुष्यांचे पंचजन आहेत; अदितीच जे जन्मले आहे, आणि अदितीच जे जन्म घेणार आहे.
अदि॑तिः । द्यौः । अदि॑तिः । अ॒न्तरि॑क्षम् । अदि॑तिः । मा॒ता । सः । पि॒ता । सः । पु॒त्रः । विश्वे॑ । दे॒वाः । अदि॑तिः । पञ्च॑ । जनाः॑ । अदि॑तिः । जा॒तम् । अदि॑तिः । जनि॑त्वम्