केष्व॒न्तः पुरु॑ष॒ आ वि॑वेश॒ कान्य॒न्तः पुरु॑षे॒ अर्पि॑तानि । ए॒तद्ब्र॑ह्म॒न्नुप॑ वल्हामसि त्वा॒ किᳪ स्वि॑न्न॒: प्रति॑ वोचा॒स्यत्र॑
kéṣv antáḥ púruṣa ā vivéśa kā́ny antáḥ púruṣe arpítāni | etád brahman úpa valhāmasi tvā kím svín naḥ práti vocāsy átra
हे पुरुषा! अंतःस्थ तू कशात प्रविष्ट झाला आहेस, आणि पुरुषाच्या अंतःकरणात कोणकोणत्या गोष्टी दृढपणे प्रतिष्ठित आहेत? हे ब्रह्मन्, हेच जाणण्यासाठी आम्ही तुझ्या समीप येऊन विचारतो—येथे आमच्याप्रति तू कोणते उत्तर सांगशील?
केषु । अन्तः । पुरुषः । आ । विवेश । कानि । अन्तः । पुरुषे । अर्पितानि । एतत् । ब्रह्मन् । उप । वल्हामसि । त्वा । किम् । स्वित् । नः । प्रति । वोचासि । अत्र