सूर्य॑ एका॒की च॑रति च॒न्द्रमा॑ जायते॒ पुन॑: । अ॒ग्निर्हि॒मस्य॑ भेष॒जं भूमि॑रा॒वप॑नं म॒हत्
sū́rya ekākī cárati candrámā jāyate púnaḥ | agnír hímasya bheṣajáṃ bhū́mir ā́vapanaṃ mahát ||
सूर्य एकाकी आपल्या मार्गावर चालतो; चंद्रमा पुन्हा पुन्हा जन्म घेतो. अग्नि हे या शीत (हिम) याचे औषध आहे; पृथ्वी हे महान बीज‑क्षेत्र (आवपन) आहे.
सूर्यः । एकाकी । चरति । चन्द्रमाः । जायते । पुनः । अग्निः । हिमस्य । भेषजम् । भूमिः । आवपनम् । महत् ।