सूर्य॑ एका॒की च॑रति च॒न्द्रमा॑ जायते॒ पुन॑: । अ॒ग्निर्हि॒मस्य॑ भेष॒जं भूमि॑रा॒वप॑नं म॒हत्
sū́rya ekākī́ carati candrámā jāyate púnaḥ | agnír himásya bheṣajáṃ bhū́mir ā́vapanaṃ mahát
सूर्य एकाकी संचार करतो; चंद्रमा पुन्हा पुन्हा जन्म घेतो. अग्नी खरोखरच थंडीचे औषध आहे; आणि पृथ्वी हे महान ‘आवपन’—विखुरणे व पेरणे यांचे स्थान आहे।
सूर्यः । एकाकी । चरति । चन्द्रमा । जायते । पुनः । अग्निः । हिमस्य । भेषजम् । भूमिः । आवपनम् । महत् ।