अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहेन्द्रा॑य॒ स्वाहा॑ पृथिव्यै॒ स्वाहा॒ ऽन्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॑ दि॒ग्भ्यः स्वाहा ऽऽशा॑भ्य॒: स्वाहो॒र्व्यै॒ दि॒शे स्वाहा॒ ऽर्वाच्यै॑ दि॒शे स्वाहा॑
agnáye svāhā́ sómāya svāhā́ índrāya svāhā́ pṛthivyái svāhā́ ’ntárikṣāya svāhā́ divé svāhā́ dígbhyaḥ svāhā́ ’āśā́bhyaḥ svāhā́ urvyái diśé svāhā́ ’rvā́cyai diśé svāhā́
अग्नये स्वाहा; सोमाय स्वाहा; इन्द्राय स्वाहा। पृथिव्यै स्वाहा; अन्तरिक्षाय स्वाहा; दिवे स्वाहा। दिग्भ्यः स्वाहा; आशाभ्यः स्वाहा; उर्व्यै दिशे स्वाहा; अर्वाच्यै दिशे स्वाहा।
अग्नये । स्वाहा । सोमाय । स्वाहा । इन्द्राय । स्वाहा । पृथिव्यै । स्वाहा । अन्तरिक्षाय । स्वाहा । दिवे । स्वाहा । दिग्भ्यः । स्वाहा । आशाभ्यः । स्वाहा । उर्व्यै । दिशे । स्वाहा । अर्वाच्यै । दिशे । स्वाहा ।