स ह॑व्य॒वाडम॑र्त्य उ॒शिग्दू॒तश्चनो॑हितः । अ॒ग्निर्धि॒या समृ॑ण्वति
sá havyavā́ḍ amártya uśíg dūtáś cano-hitáḥ | agnír dhiyā samŕ̥ṇvati
तो अमर्त्य हव्यवाह, उषिग्—उत्सुक, आणि आमच्या हितासाठी नेमलेला दूत—अग्नी पवित्र धिया ने कर्म सिद्ध करतो।
सः । ह॒व्य॒वाट् । अम॑र्त्यः । उ॒शिक् । दू॒तः । च॒नः॒-हि॒तः । अ॒ग्निः । धि॒या । समृ॑ण्वति ।