दे॒वो दे॒वैर्वन॒स्पति॒र्हिर॑ण्यपर्णो अ॒श्विभ्या॒ᳪ सर॑स्वत्या सुपिप्प॒ल इन्द्रा॑य पच्यते॒ मधु॑ । ओजो॒ न जू॒तिरृ॑ष॒भो न भामं॒ वन॒स्पति॑र्नो॒ दध॑दिन्द्रि॒याणि॑ वसु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑
de̱vó de̱váir vanaspátir híraṇyaparṇo aśvíbhyā̱ṁ sárasvatyā supippalá índrāya pacyate̱ mádhu | ójo̱ ná jū̱tír ṛṣabhó ná bhā́maṁ vanaspátir no̱ dádhad indriyā́ṇi vasuváne vasudhéyasya vyantu̱ yája
देवांसह देव वनस्पती—‘हिरण्यपर्ण’ (सुवर्ण-पर्ण), ‘सुपिप्पल’ (सु-फलित)—अश्विन व सरस्वतीसह इंद्रासाठी मधुरूपाने पचविला जातो. बलाप्रमाणे, वेगाप्रमाणे, वृषभ-पराक्रमाप्रमाणे, तेजाप्रमाणे—वनस्पती आम्हाला इंद्रिय-शक्ती प्रदान करो. धनप्राप्तीत, धननिधी-संचयासाठी, त्या यज्ञात व्यापक होवोत—स्वाहा।
दे॒वः । दे॒वैः । वन॒स्पतिः॑ । हिर॑ण्य-पर्णः । अ॒श्विभ्या॑म् । सर॑स्वत्या । सु-पिप्प॒लः । इन्द्रा॑य । पच्यते॑ । मधु॑ । ओजः॑ । न । जू॒तिः । ऋ॒ष॒भः । न । भाम॑म् । वन॒स्पतिः॑ । नः॒ । दध॑त् । इन्द्रि॒याणि॑ । वसु॒वने॑ । वसु॒धेय॑स्य । व्यन्तु॑ । यज॑