दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीर॒श्विनेडा॒ सर॑स्वती । शूषं॒ न मध्ये॒ नाभ्या॒मिन्द्रा॑य दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑
devī́s tisráḥ tisró devī́r aśvínéḍā́ sárasvatī | śū́ṣaṃ ná mádhye nā́bhyām índrāya dadhur indríyaṃ vasuváne vasudhèyasyá vyantu yája
तीन देव्या—तीन देव्या—अश्विनौ, इडा, सरस्वती। जशी मध्यभागी, दोन्ही नाभींमध्ये प्रेरणा (शूष) स्थित असते, तशीच त्यांनी इंद्रासाठी इंद्रिय-बल प्रदान केले. धनप्राप्तीत, निधी-संचयात, त्या ते विस्तारोत; तू यजन कर.
दे॒वीः । ति॒स्रः । ति॒स्रः । दे॒वीः । अ॒श्विना॑ । इडा॑ । सर॑स्वती । शूष॑म् । न । मध्ये॒ । नाभ्या॑म् । इन्द्रा॑य । दधुः । इ॒न्द्रि॒यम् । व॒सु॒वने॑ । व॒सु॒धेय॑स्य । व्यन्तु॑ । यज॑