होता॑ यक्ष॒त्तनू॒नपा॒त्सर॑स्वती॒मवि॑र्मे॒षो न भे॑ष॒जं प॒था मधु॑मता॒ भर॑न्न॒श्विनेन्द्रा॑य वी॒र्यं बद॑रैरुप॒वाका॑भिर्भेष॒जं तोक्म॑भि॒: पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑
hótā yákṣat tanūnapāt sárasvatīm ávir méṣo ná bheṣajáṃ pathā́ mádhumatā bhárann aśvinéndrāya vīryàṃ bádarair upavākā́bhir bheṣajáṃ tókma-bhiḥ páyaḥ sómaḥ parísrutā ghṛtáṃ mádhu vyàntv ā́jyasya hótar yaja
होता तनूनपात् व सरस्वतीचे यजन करो. जशी अवि (मेंढी) व मेष (मेंढा) औषध आहेत, मधुमती पथाने (ते) आणीत—तसे अश्विनौ-इंद्रासाठी वीर्य (पराक्रम) होवो. बदर-फळांनी, उपवाका-वचनांनी औषध; तोक्म (बीज) यांनी औषध. पयः, परिस्रुत सोम, घृत व मधु—हे सर्व आज्यासह व्याप्त होवोत. हे होतः, यजन कर.
होता । यक्षत् । तनूनपात् । सरस्वतीम् । अविः । मेषः । न । भेषजम् । पथा । मधुमता । भरन् । अश्विनेन्द्राय । वीर्यम् । बदरैः । उपवाकाभिः । भेषजम् । तोक्मभिः । पयः । सोमः । परिस्रुताः । घृतम् । मधु । व्यन्तु । आज्यस्य । होतः । यज