तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑स्ते॒ यज॑मानो ह॒विर्भि॑ः । अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शᳪस॒ मा न॒ आयु॒: प्र मो॑षीः ॥
tát tvā́ yāmi bráhmaṇā vandamānáḥ tádā́ śāste yájamāno havírbhiḥ | áheḍamāno varuṇéha bodhy úruśaṃsa mā́ na ā́yuḥ prá moṣīḥ ||
म्हणून मी ब्रह्मवाणीने वंदन करीत तुझ्याकडे येतो; म्हणून यजमान हविर्भिः (हविसांनी) आपली विनंती अर्पितो. हे वरुणा! रागरहित होऊन येथे जागृत रहा, हे व्यापक-प्रशंसित! आमचे आयुष्य हिरावून घेऊ नकोस.
तत् । त्वा । यामि । ब्रह्मणा । वन्दमानः । तत् । आ । शास्ते । यजमानः । हविर्भिः । अहेडमानः । वरुण । इह । बोधि । उरुशंस । मा । नः । आयुः । प्र । मोषीः ।