दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । अ॒श्विनोर्भैष॑ज्येन॒ तेज॑से ब्रह्मवर्च॒साया॒भि षि॑ञ्चामि॒ सर॑स्वत्यै॒ भैष॑ज्येन वी॒र्या॒या॒न्नाद्या॑या॒भि षि॑ञ्चा॒मीन्द्र॑स्येन्द्रि॒येण॒ बला॑य श्रियै॒ यश॑से॒ऽभि षि॑ञ्चामि
devasya tvā savituḥ prasave’śvinōr bāhubhyāṃ pūṣṇō hastābhyām | aśvinōr bhaiṣajyena téjase brahmavarcasāyā́bhi ṣiñcāmi | sárasvatyai bhaiṣajyena vīryā́yā́nnādyāyā́bhi ṣiñcāmi | índrasyéndriyeṇa bálāya śríyai yáśase’bhi ṣiñcāmi
देव सवित्याच्या प्रसवाने मी तुला अभिषेक करतो—अश्विनौंच्या भुजांनी, पूषणाच्या हस्तांनी. अश्विनौंच्या भैषज्याने तेज व ब्रह्मवर्चसासाठी मी तुला अभिषेक करतो; सरस्वतीच्या भैषज्याने वीर्य व अन्नाद्यासाठी मी तुला अभिषेक करतो; इंद्राच्या इंद्रियाने बल, श्री व यशासाठी मी तुला अभिषेक करतो।
दे॒वस्य॑ । त्वा । सवि॒तुः । प्र॑स॒वे । अ॒श्विनोः॑ । बा॒हुभ्या॑म् । पू॒ष्णः । हस्ता॑भ्याम् । अ॒श्विनोः॑ । भैष॑ज्येन । तेज॑से । ब्रह्मवर्च॒साया॑ । अ॒भि । सि॑ञ्चामि । सर॑स्वत्यै । भैष॑ज्येन । वी॒र्या॑य । अ॒न्नाद्या॑य । अ॒भि । सि॑ञ्चामि । इन्द्र॑स्य । इन्द्रि॒येण॑ । बला॑य । श्रियै । यश॑से । अ॒भि । सि॑ञ्चामि