प्र॒थ॒मा द्वि॒तीयै॑र्द्वि॒तीया॑स्तृ॒तीयै॑स्तृ॒तीया॑: स॒त्येन॑ स॒त्यं य॒ज्ञेन॑ य॒ज्ञो यजु॑र्भि॒र्यजू॑ᳪषि॒ साम॑भि॒: सामा॑न्यृ॒ग्भिरृच॑: पुरोऽनुवा॒क्या॒भिः पुरोऽनुवा॒क्या॒ या॒ज्या॒भिर्या॒ज्या॒ वषट्का॒रैर्व॑षट्का॒रा आहु॑तिभि॒राहु॑तयो मे॒ कामा॒न्त्सम॑र्धयन्तु॒ भूः स्वाहा॑ ।
prathamā́ dvitī́yair dvitī́yās tṛtī́yais tṛtī́yāḥ satyéna satyáṃ yajñéna yajñó yájurbhir yajū́ṃṣi sāmábhiḥ sāmā́ny ṛgbhír ṛ́caḥ puro-’nuvākyā́bhiḥ puro-’nuvākyā́ yājyā́bhir yājyā́ vaṣaṭkāráir vaṣaṭkārā́ āhútibhir āhútayo me kā́mān sámardhayantu bhū́ḥ svā́hā ||
प्रथम द्वितीयांनी, द्वितीय तृतीयांनी, तृतीय तृतीयांनी—सत्याने सत्य प्रतिष्ठित होवो; यज्ञाने यज्ञ सिद्ध होवो; यजुर्भिः यजूᳪषि (यजुस्‑मंत्रांनी यजुस्‑कर्म), सामभिः सामानि (सामांनी साम‑गान), ऋग्भिः ऋचः (ऋचांनी ऋचा)। पुरोऽनुवाक्याभिः पुरोऽनुवाक्याः (पूर्व‑आह्वानांनी पूर्व‑आह्वान), याज्याभिः याज्याः (याज्या‑मंत्रांनी याज्या), वषट्कारैः वषट्काराः (वषट्‑कारांनी वषट्‑कार), आहुतिभिः आहुतयः (आहुतींनी आहुती)—माझ्या कामनांना समृद्ध करो। भूः स्वाहा॥
प्र॒थ॒माः । द्वि॒तीयैः । द्वि॒तीया॑ः । तृ॒तीयैः । तृ॒तीया॑ः । स॒त्येन॑ । स॒त्यम् । य॒ज्ञेन॑ । य॒ज्ञः । यजु॑र्भिः । यजू॑ᳪषि । साम॑भिः । सामा॑नि । ऋ॒ग्भिः । ऋचः॑ । पु॒रः-अ॒नु॒वा॒क्याभिः॑ । पु॒रः-अ॒नु॒वा॒क्याः । या॒ज्या॒भिः । या॒ज्याः । वषट्का॒रैः । वषट्का॒राः । आहु॑तिभिः । आहु॑तयः । मे॒ । कामा॑न् । सम॑र्धयन्तु । भूः । स्वाहा॑ ।