वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स्त्वा ऽऽदि॒त्येभ्य॑स्त्वा॒ संजा॑नाथां द्यावापृथिवी मि॒त्रावरु॑णौ त्वा॒ वृष्ट्या॑वताम् । व्यन्तु॒ वयो॒क्तᳪ रिहा॑णा म॒रुतां॒ पृषतीर्गच्छ व॒शा पृश्नि॑र्भू॒त्वा दिवं॑ गच्छ॒ ततो॑ नो॒ वृष्टि॒माव॑ह । च॒क्षु॒ष्पा अ॑ग्नेऽसि॒ चक्षु॑र्मे पाहि
vásubhyas tvā rudrébhyas tvā ādityébhyas tvā saṃjā́nāthāṃ dyāvāpṛthivī mitrā́varuṇau tvā vṛ́ṣṭyāvatām | vyàntu váyo uktáṃ rihā́ṇā marútāṃ pṛ́ṣatīr gaccha vaśā́ pṛ́śnir bhūtvā diváṃ gaccha táto no vṛ́ṣṭim ā́vaha | cákṣuṣpā agne ’si cákṣur me pāhi
वसूंकरिता तुला; रुद्रांकरिता तुला; आदित्यांकरिता तुला. द्यावा‑पृथिवी तुला ऐक्यात संजोडो; मित्र‑वरुण तुला वर्षेने संपन्न करो. येथे कुरतडून‑क्षीण करणाऱ्या पंखधारी (अपायकारक) शक्ती दूर जावोत. मरुतांच्या ठिपक्यांच्या दलासारखा पुढे जा; वशा (वांझ गाय) होऊन, पृष्णी होऊन, दिवं (स्वर्ग) गाठ; तेथून आम्हांसाठी वर्षा आण. हे अग्ने, तू चक्षुष्मान आहेस; माझ्या चक्षूचे रक्षण कर.
वसु॑भ्यः । त्वा । रु॒द्रेभ्यः॑ । त्वा । आ॒दि॒त्येभ्यः॑ । त्वा । सं-जा॑नाथाम् । द्यावा-पृथिवी इति । मि॒त्रा-वरु॑णौ । त्वा । वृष्ट्या॑-वताम् । वि-अन्तु॑ । वयः॑ । उ॒क्तम् । रिहा॑णाः । म॒रुताम्॑ । पृषतीः॑ । गच्छ । व॒शा । पृश्निः॑ । भू॒त्वा । दिवम् । गच्छ । ततः॑ । नः॒ । वृष्टि॑म् । आ-वह । च॒क्षु॒ष्पाः । अ॒ग्ने । अ॒सि । चक्षुः॑ । मे॒ । पाहि