इन्द्र॑: सु॒त्रामा॒ हृद॑येन स॒त्यं पु॑रो॒डाशे॑न सवि॒ता ज॑जान । यकृ॑त् क्लो॒मानं॒ वरु॑णो भिष॒ज्यन् मत॑स्ने वाय॒व्यैर्न मि॑नाति पि॒त्तम्
índraḥ sutrā́mā hṛ́dayena satyáṃ puroḍā́śena savitā́ jajāna | yákṛt klomā́naṃ váruṇo bhiṣajyán matásne vāyavyáiḥ ná mināti píttam
इंद्र, सुत्रामा (सुरक्षक), हृदयाने सत्य धारण करतो; पुरोडाशाने सविता (यास) जनवितो. वरुण, भिषक् (वैद्य) होऊन, यकृत् व क्लोमान (फुफ्फुसे) यांना ठीक करतो; शोधनात वायव्य शक्तींनी तो पित्ताला इजा करीत नाही.
इन्द्रः । सुत्रामा । हृदयेन । सत्यम् । पुरोडाशेन । सविता । जजान । यकृत् । क्लोमानम् । वरुणः । भिषज्यन् । मतस्ने । वायव्यैः । न । मिनाति । पित्तम्