अ॒भ्य॒र्षत सुष्टु॒तिं गव्य॑मा॒जिम॒स्मासु॑ भ॒द्रा द्रवि॑णानि धत्त । इ॒मं य॒ज्ञं न॑यत दे॒वता॑ नो घृ॒तस्य॒ धारा॒ मधु॑मत्पवन्ते
abhyàrṣata suṣṭutíṃ gavyàm-ājím asmā́su bhadrā́ dráviṇāni dhatta | imáṃ yajñáṃ nayata devátā no ghṛtásya dhā́rā madhúmat-pavante ||
सुष्ठु उच्चारलेल्या स्तुतीसह, गव्य (गोधन-प्राप्ती) देणाऱ्या आजि (स्पर्धा/युद्ध) सह, आमच्याकडे प्रवाहित व्हा; आमच्यात कल्याणकारी द्रविण (धन-संपदा) धरा. हे देवहो, आमचा हा यज्ञ पुढे न्या; घृताच्या धारा मधुमय व पावन होऊन वाहत आहेत.
अभि-अर्षत । सुष्टुतिम् । गव्यम्-आजिम् । अस्मासु । भद्राः । द्रविणानि । धत्त । इमम् । यज्ञम् । नयत । देवताः । नः । घृतस्य । धाराः । मधुमत् । पवन्ते ।