अग्ने॒ प्रेहि॑ प्रथ॒मो दे॑वय॒तां चक्षु॑र्दे॒वाना॑मु॒त मर्त्या॑नाम् । इय॑क्षमाणा॒ भृगु॑भिः स॒जोषा॒: स्व॒र्यन्तु॒ यज॑मानाः स्व॒स्ति
agne préhi prathamó devayatā́ṃ cákṣur devā́nām utá mártyānām | íyakṣamāṇā bhṛgúbhiḥ sajóṣāḥ svaryántu yájamānāḥ svastí
हे अग्ने! तू पुढे जा—देवभावी जनांमध्ये प्रथम; तू देवांचा आणि मर्त्यांचा नेत्र आहेस. भृगूंशी सख्यभावाने, यज्ञ करण्यास उत्सुक होऊन, यजमान स्वर्लोक प्राप्त करो—स्वस्ति होवो.
अग्ने॒ । प्र । इहि । प्र॒थ॒मः । दे॒व॒य॒ताम् । चक्षुः॑ । दे॒वाना॑म् । उ॒त । मर्त्या॑नाम् । इय॑क्षमाणाः । भृगु॑भिः । स॒-जो॒षाः । स्व॒र्यन्तु॑ । यज॑मानाः । स्व॒स्ति