स॒हस्रा॑णि सहस्र॒शो बा॒ह्वोस्तव॑ हे॒तय॑: । तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि
sahásrāṇi sahasraśó bāhvós tava hetáyaḥ | tāsām ī́śāno bhagavaḥ parācī́nā múkhā kṛdhi ||
हे भगवन्, हे ईशान! तुझ्या बाहूंमध्ये सहस्र—होय, सहस्र—हेतयः (प्रहारक अस्त्रे) आहेत. हे प्रभो, त्यांचे मुख (धार) आमच्यापासून पराचीन—विमुख—कर.
स॒हस्रा॑णि । सहस्र॒शः । बा॒ह्वोः । तव॑ । हे॒तयः॑ । तासा॑म् । ईशा॑नः । भगवः । परा॒चीना॑ । मुखा॑ । कृधि ।