नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒ नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च॒ नम॑ः श्रु॒ताय॑ च श्रुतसे॒नाय॑ च॒ नमो॑ दुन्दु॒भ्या॒य चाहन॒न्या॒य च
námo bilmíne ca kavacíne ca námo varmíṇe ca varūthíne ca námaḥ śrutā̀ya ca śrutásenāya ca námo dundubhyā̀ya cāhananyā̀ya ca
बिल्मिन् (शिरस्त्राण/हेल्मेटधारी) आणि कवचिन् (कवचधारी) यांस नमस्कार; वर्मिन् (वर्म/जिरह-बख्तरयुक्त) आणि वरूथिन् (रक्षण/आश्रय देणारा) यांस नमस्कार; श्रुत (प्रसिद्ध/श्रुतकीर्ती) आणि श्रुतसेन (प्रसिद्ध सेना असणारा) यांस नमस्कार; दुन्दुभि (नगारा/ढोल) आणि अहनन्य (अजेय/अपराजित) यांस नमस्कार।
नमः । बिल्मिने । च । कवचिने । च । नमः । वर्मिणे । च । वरूथिने । च । नमः । श्रुताय । च । श्रुतसेनाय । च । नमः । दुन्दुभ्याय । च । अहनन्याय । च