ए॒भिर्नो॑ अर्कै॒र्भवा॑ नो अ॒र्वाङ् स्व॒र्ण ज्योति॑: । अग्ने॒ विश्वे॑भिः सु॒मना॒ अनी॑कैः
ebhír no arkáir bhavā́ no arvā́ṅ svàrṇ jyótiḥ | agne víśvebhiḥ sumánā anī́kaiḥ ||
या आमच्या अर्कांनी (स्तुतिंनी) तू आमच्यासाठी इकडे ये—सुवर्णदीप्त ज्योती हो; हे अग्ने, तुझ्या सर्व अनीकांसह (मुख/रूपांसह) सुमना (प्रसन्न) राहा.
एभिः । नः । अर्कैः । भव । नः । अर्वाङ् । स्वर्ण् । ज्योतिः । अग्ने । विश्वेभिः । सुमनाः । अनीकैः ।