ए॒ना वो॑ अ॒ग्निं नम॑सो॒र्जो नपा॑त॒मा हु॑वे । प्रि॒यं चेति॑ष्ठमर॒तिᳪ स्व॑ध्व॒रं विश्व॑स्य दू॒तम॒मृत॑म्
enā́ vo agníṃ námasorjó nápātam ā́ huve | priyáṃ cétiṣṭham aratíṃ svádhvaraṃ víśvasya dūtám amṛ́tam
या (मंत्रा)ने आणि नमस्कारपूर्वक मी तुमच्याकडे अग्नीस आवाहन करतो—ऊर्जो नपात् (बलाचा पुत्र), प्रिय, अतिविवेकी, दूरगामी मार्गदर्शक, सु-अध्वर (सत्-यज्ञ) करणारा, विश्वाचा दूत, अमृत (अमर)।
एना । वः । अग्निम् । नमसा । ऊर्जः । नपातम् । आ । हुवे । प्रियम् । चेतिष्ठम् । अरतिम् । सु-अध्वरम् । विश्वस्य । दूतम् । अमृतम् ।