त्वाम॑ग्ने॒ अङ्गि॑रसो॒ गुहा॑ हि॒तमन्व॑विन्दञ्छिश्रिया॒णं वने॑ – वने । स जा॑यसे म॒थ्यमा॑न॒: सहो॑ म॒हत्त्वामा॑हु॒: सह॑सस्पु॒त्रम॑ङ्गिरः
tvā́m agne áṅgiraso gúhā hitám ánv avindan chiśriyāṇáṃ váne-vane | sá jā́yase mathyámānaḥ sáho mahát tvā́m ā́huḥ sáhasaḥ putrám áṅgiraḥ
हे अग्ने! अङ्गिरसांनी तुला गुहेत निहित, वनावनात आश्रित (गुप्त) अवस्थेत शोधून काढले. तू मंथन केल्यावर जन्माला येतोस; तुझे सामर्थ्य महान आहे. हे अङ्गिरस! तुला ते ‘सहस (बल) याचा पुत्र’ असे म्हणतात.
त्वाम् । अ॒ग्ने॒ । अङ्गि॑रसः । गुहा॑ । हि॒तम् । अनु॑ । अ॒वि॒न्द॒न् । शि॒श्रि॒या॒णम् । वने॑-वने । सः । जा॑यसे । म॒थ्यमा॑नः । सहः॑ । म॒हत् । त्वाम् । आ॒हुः । सह॑सः । पु॒त्रम् । अ॒ङ्गि॒रः