पुन॑स्त्वाऽऽदि॒त्या रु॒द्रा वस॑व॒: समि॑न्धतां॒ पुन॑र्ब्र॒ह्माणो॑ वसुनीथ य॒ज्ञैः । घृ॒तेन॒ त्वं त॒न्वं॒ वर्धयस्व स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामा॑:
púnas tvā ādityā́ rudrā́ vásavaḥ samíndhatāṃ púnar brahmā́ṇo vasunītha yajñáiḥ | ghṛténa tvaṃ tanvàṃ vardhayasva satyā́ḥ santu yajamā́nasya kā́māḥ
पुन्हा आदित्य, रुद्र आणि वसु तुम्हाला प्रज्वलित करो; पुन्हा ब्रह्म-शक्ती यज्ञांनी तुम्हाला धन-मार्गावर पुढे नेवो. घृताने तू आपले तन वाढव; यजमानाच्या कामना सत्यरूपाने पूर्ण होवोत.
पुनः । त्वा । आदित्याः । रुद्राः । वसवः । समिन्धताम् । पुनः । ब्रह्माणः । वसुनीथ । यज्ञैः । घृतेन । त्वम् । तन्वम् । वर्धयस्व । सत्याः । सन्तु । यजमानस्य । कामाः ।