प्र-प्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यत्सूर्यो॒ न रोच॑ते बृ॒हद्भाः । अ॒भि यः पू॒रुं पृत॑नासु त॒स्थौ दी॒दाय दैव्यो॒ अति॑थिः शि॒वो न॑ः
prá-prāyam agnír bharatásya śṛṇvé ví yát sū́ryo ná rócate bṛhád-bhāḥ | abhí yáḥ pūrúm pṛ́tanāsu tastháu dīdā́ya daivyó átithiḥ śivó naḥ
अग्नी पुढे पुढे सरकला आहे—भरताचा यशोगान तो ऐकवितो—सूर्यासारखा तो जेव्हा प्रकाशतो, तेव्हा महान तेजस्वी असतो. जो युद्धांत पूरूच्या बाजूला उभा राहिला, तो दैवी अतिथी आमच्यासाठी शुभ होऊन दीप्त झाला आहे.
प्र-प्रायम् । अग्निः । भरतस्य । शृण्वे । वि । यत् । सूर्यः । न । रोचते । बृहत्-भाः । अभि । यः । पूरुम् । पृतनासु । तस्थौ । दीदाय । दैव्यः । अतिथिः । शिवः । नः