विश्व॑स्य के॒तुर्भुव॑नस्य॒ गर्भ॒ आ रोद॑सी अपृणा॒ज्जाय॑मानः । वी॒डुं चि॒दद्रि॑मभिनत् परा॒यञ्जना॒ यद॒ग्निमय॑जन्त॒ पञ्च॑
víśvasya ketúrbhúvanasya gárbha ā ródasī apṛṇāj jā́yamānaḥ | vīḷúṃ cid ádrim abhinat parāyáñ janā́ yad agním áyajanta páñca ||
सर्वांचा केतू, जगाचा गर्भ—जन्मताच त्याने द्यावा‑पृथिवी हे दोन्ही लोक भरून टाकले. पुढे धावत असता त्याने दृढ दुर्गालाही, पर्वत‑शिलेलाही फोडून टाकले, जेव्हा मनुष्यांनी—पंचविधांनी—अग्नीस यज्ञ अर्पिला.
विश्वस्य । केतुः । भुवनस्य । गर्भः । आ । रोदसी इति । अपृणात् । जायमानः । वीळुम् । चित् । अद्रिम् । अभिनत् । परायन् । जनाः । यत् । अग्निम् । अयजन्त । पञ्च