शि॒वो भू॒त्वा मह्य॑मग्ने॒ अथो॑ सीद शि॒वस्त्वम् । शि॒वा: कृ॒त्वा दिश॒: सर्वा॒: स्वं योनि॑मि॒हास॑दः
śivó bhūtvā́ máhyam agne átho sīda śivás tvám | śivā́ḥ kṛtvā́ díśaḥ sárvā́ḥ sváṃ yónim ihā́sadaḥ ||
हे अग्ने! माझ्यासाठी शिव (कल्याणकारी) हो; आणि मग, तू स्वतः शिव होऊन बस. सर्व दिशा शिव (मंगलमय) करून, आपल्या स्वयोनित (स्व-आधारात) इथे आसनस्थ हो.
शिवः । भूत्वा । मह्यम् । अग्ने । अथो इति । सीद । शिवः । त्वम् । शिवाः । कृत्वा । दिशः । सर्वाः । स्वम् । योनिम् । इह । आसदः