इ॒र॒ज्यन्न॑ग्ने प्रथयस्व ज॒न्तुभि॑र॒स्मे रायो॑ अमर्त्य । स द॑र्श॒तस्य॒ वपु॑षो॒ वि रा॑जसि पृ॒णक्षि॑ सान॒सिं क्रतु॑म्
irajyánn agne prathayasva jantúbhir asmē rā́yo amartya | sá darśatásya vápuso ví rājasi pṛṇákṣi sānásim krátum ||
हे अग्ने! उत्साहाने गतिमान होऊन प्राण्यांमध्ये स्वतःचा विस्तार कर; हे अमर्त्या! आमच्यासाठी धन-समृद्धीचा विस्तार कर. तू दर्शनीय रूपाने उजळून निघतोस; तू यज्ञाचा विजयकारी संकल्प (क्रतु) पूर्ण करतोस.
इरज्यन् । अग्ने । प्रथयस्व । जन्तुभिः । अस्मे । रायः । अमर्त्य । सः । दर्शतस्य । वपुषः । वि । राजसि । पृणक्षि । सानसिम् । क्रतुम् ।