यो अ॒स्मभ्य॑मराती॒याद्यश्च॑ नो॒ द्वेष॑ते॒ जन॑: । निन्दा॒द्यो अ॒स्मान्धिप्सा॑च्च॒ सर्वं॒ तं भ॑स्म॒सा कु॑रु
yó asmábhyam arātīyā́d yáś ca no dvéṣate jánaḥ | níndād yó asmā́n dhipsā́c ca sárvaṃ táṃ bhasmásā kúru
जो आमच्याशी वैर धरून आम्हाला हानी करावयास पाहतो, आणि जो कोणी मनुष्य आमचा द्वेष करतो; जो निंदेद्वारे, आणि जो आम्हाला इजा करण्याच्या हेतूने आक्रमण करतो—त्या सर्वांना तू भस्म कर.
यः । अ॒स्मभ्य॑म् । अ॒रा॒ती॒यात् । यः । च॒ । नः॒ । द्वेष॑ते । जन॑ः । निन्दा॒त् । यः । अ॒स्मान् । धिप्सा॑त् । च॒ । सर्व॑म् । तम् । भ॑स्म॒सा । कु॑रु