यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो॑भि॒र्वि श्लोक॑ एतु प॒थ्ये॒व सू॒रेः । शृ॒ण्वन्तु॒ विश्वे॑ अ॒मृत॑स्य पु॒त्रा आ ये धामा॑नि दि॒व्यानि॑ त॒स्थुः
yujé vāṃ bráhma pū́rvyaṃ námobhir ví ślóka etu pathyéva sūréḥ | śṛṇvántu víśve amṛ́tasya putrā́ ā́ yé dhā́māni divyā́ni tasthúḥ
मी तुमच्या दोघांसाठी त्या प्राचीन ब्रह्म-वाणीला योजित करतो; नमस्कारांसह ही स्तुती सूर्याच्या निश्चित पथाप्रमाणे सर्वत्र प्रसारित होवो. अमृताचे पुत्र—सर्वांनी—श्रवण करावे; दिव्य धामांमध्ये स्थित असणाऱ्यांनीही.
यु॒जे । वा॒म् । ब्रह्म॑ । पू॒र्व्यम् । नमो॑भिः । वि । श्लोकः॑ । ए॒तु । प॒थ्या॑ । इ॒व । सू॒रेः । शृ॒ण्वन्तु॑ । विश्वे॑ । अ॒मृत॑स्य । पु॒त्राः । आ । ये । धामा॑नि । दि॒व्यानि॑ । त॒स्थुः