Sukta 7.104
अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस्ततप पूरुषस्य । अधा स वीरैर्दशभिर्वि यूया यो मा मोघं यातुधानेत्याह ॥
अ॒द्या मु॑रीय॒ यदि॑ यातु॒धानो॒ अस्मि॒ यदि॒ वायु॑स्त॒तप॒ पूरु॑षस्य । अधा॒ स वी॒रैर्द॒शभि॒र्वि यू॑या॒ यो मा॒ मोघं॒ यातु॑धा॒नेत्याह॑ ॥
adyā́ murīya yádi yātudhā́no asmi yádi vā́yus tatápa pū́ruṣasya | ádhā sá vīráir daśábhir ví yūyā yó mā móghaṃ yātudhā́nety ā́ha ||
मी जर यातुधान असेन, तर आजच मी मरो; माझ्यातील पुरुषाला प्राणवायूने दग्ध केले असेल तर तसेच होवो. आणि जो व्यर्थ माझ्याविषयी ‘हा यातुधान आहे’ असे म्हणतो, तो आपल्या दहा वीरांसह छिन्नभिन्न होऊन दूर केला जावो.
अ॒द्य । मु॒री॒य॒ । यदि॑ । या॒तु॒ऽधानः॑ । अस्मि॑ । यदि॑ । वा॒ । आयुः॑ । त॒तप॑ । पुरु॑षस्य । अध॑ । सः । वी॒रैः । द॒शऽभिः॑ । वि । यू॒याः॒ । यः । मा॒ । मोघ॑म् । यातु॑ऽधा॒न । इति॑ । आह॑ ॥अद्य । मुरीय । यदि । यातुधानः । अस्मि । यदि । वा । आयुः । ततप । पुरुषस्य । अध । सः । वीरैः । दशभिः । वि । यूयाः । यः । मा । मोघम् । यातुधान । इति । आह ॥adya | murīya | yadi | yātu-dhānaḥ | asmi | yadi | vā | āyuḥ | tatapa | puruṣasya | adha | saḥ | vīraiḥ | daśa-bhiḥ | vi | yūyāḥ | yaḥ | mā | mogham | yātu-dhāna | iti | āha