Sukta 6.54
यो अस्मै हविषाविधन्न तं पूषापि मृष्यते । प्रथमो विन्दते वसु ॥
यो अ॑स्मै ह॒विषावि॑ध॒न्न तं पू॒षापि॑ मृष्यते । प्र॒थ॒मो वि॑न्दते॒ वसु॑ ॥
yó asmai havíṣā́vidhanná táṁ pūṣā́pi mṛṣyate | prathamó vindate vásu ||
जो त्याच्यासाठी हवि अर्पण करतो, त्याला पूषन्ही दुर्लक्ष करत नाही; तोच प्रथम ‘वसु’—खऱ्या धन-तत्त्वाला—प्राप्त करतो।
यः । अ॒स्मै॒ । ह॒विषा । अवि॑धत् । न । तम् । पू॒षा । अपि॑ । मृ॒ष्य॒ते॒ । प्र॒थ॒मः । वि॒न्द॒ते॒ । वसु॑ ॥यः । अस्मै । हविषा । अविधत् । न । तम् । पूषा । अपि । मृष्यते । प्रथमः । विन्दते । वसु ॥yaḥ | asmai | haviṣā | avidhat | na | tam | pūṣā | api | mṛṣyate | prathamaḥ | vindate | vasu