Sukta 10.143
युवं भुज्युं समुद्र आ रजसः पार ईङ्खितम् । यातमच्छा पतत्रिभिर्नासत्या सातये कृतम् ॥
यु॒वं भु॒ज्युं स॑मु॒द्र आ रज॑सः पा॒र ई॑ङ्खि॒तम् । या॒तमच्छा॑ पत॒त्रिभि॒र्नास॑त्या सा॒तये॑ कृतम् ॥
yuváṃ bhujyúṃ samudrá ā́ rájasaḥ pāré ī́ṅkhitam | yā́tam ácchā patatríbhir nā́satyā sātáye kṛtám ||
हे नासत्यौ! रजस् (अंतरिक्ष) यांच्या पार तीरावर समुद्रात हेलकावत असलेल्या भुज्युजवळ तुम्ही दोघे पोहोचलात. विजय व सुरक्षित प्राप्ती यासाठी घडविलेल्या पंखधारी शक्तीं/पतत्रींनी तुम्ही त्याच्यापाशी येऊन त्याचा उद्धार केला.
यु॒वम् । भु॒ज्युम् । स॒मु॒द्रे । आ । रज॑सः । पा॒रे । ई॒ङ्खि॒तम् । या॒तम् । अच्छ॑ । प॒त॒त्रिऽभिः॑ । नास॑त्या । सा॒तये॑ । कृ॒त॒म् ॥युवम् । भुज्युम् । समुद्रे । आ । रजसः । पारे । ईङ्खितम् । यातम् । अच्छ । पतत्रिभिः । नासत्या । सातये । कृतम् ॥yuvam | bhujyum | samudre | ā | rajasaḥ | pāre | īṅkhitam | yātam | accha | patatri-bhiḥ | nāsatyā | sātaye | kṛtam