Sukta 10.117
कृषन्नित्फाल आशितं कृणोति यन्नध्वानमप वृङ्क्ते चरित्रैः । वदन्ब्रह्मावदतो वनीयान्पृणन्नापिरपृणन्तमभि ष्यात् ॥
कृ॒षन्नित्फाल॒ आशि॑तं कृणोति॒ यन्नध्वा॑न॒मप॑ वृङ्क्ते च॒रित्रै॑: । वद॑न्ब्र॒ह्माव॑दतो॒ वनी॑यान्पृ॒णन्ना॒पिरपृ॑णन्तम॒भि ष्या॑त् ॥
kṛṣánn ít phālá ā́śitaṃ kṛṇoti yánn ádhvānam ápa vṛṅkte carítraiḥ | vádān brahmā́ avádatō vanī́yān pṛṇán ā́pir apṛṇántam abhí syāt ||
नांगरही जेव्हा श्रम करते तेव्हा अन्न निर्माण करते; कारण आपल्या चालण्याने-चरणांनी तो मार्ग मोकळा करतो. बोलणारा ब्रह्मन्, न बोलणाऱ्यापेक्षा श्रेष्ठ; जो भरतो-पूर्ण करतो तोच खरा सहायक—जो भरत नाही त्याच्या विरोधात उभे राहावे.
कृ॒षन् । इत् । फालः॑ । आशि॑तम् । कृ॒णो॒ति॒ । यन् । अध्वा॑नम् । अप॑ । वृ॒ङ्क्ते॒ । च॒रित्रैः॑ । वद॑न् । ब्र॒ह्मा । अव॑दतः । वनी॑यान् । पृ॒णन् । आ॒पिः । अपृ॑णन्तम् । अ॒भि । स्या॒त् ॥कृषन् । इत् । फालः । आशितम् । कृणोति । यन् । अध्वानम् । अप । वृङ्क्ते । चरित्रैः । वदन् । ब्रह्मा । अवदतः । वनीयान् । पृणन् । आपिः । अपृणन्तम् । अभि । स्यात् ॥kṛṣan | it | phālaḥ | āśitam | kṛṇoti | yan | adhvānam | apa | vṛṅkte | caritraiḥ | vadan | brahmā | avadataḥ | vanīyān | pṛṇan | āpiḥ | apṛṇantam | abhi | syāt