Sukta 1.186
उत न ईं त्वष्टा गन्त्वच्छा स्मत्सूरिभिरभिपित्वे सजोषाः । आ वृत्रहेन्द्रश्चर्षणिप्रास्तुविष्टमो नरां न इह गम्याः ॥
उ॒त न॑ ईं॒ त्वष्टा ग॒न्त्वच्छा॒ स्मत्सू॒रिभि॑रभिपि॒त्वे स॒जोषा॑: । आ वृ॑त्र॒हेन्द्र॑श्चर्षणि॒प्रास्तु॒विष्ट॑मो न॒रां न॑ इ॒ह ग॑म्याः ॥
utá na īṃ tváṣṭā gántv ácchā smát sūríbhir abhipitvé sajóṣāḥ | ā vṛtrahéndraś carṣaṇiprā́stuvíṣṭamo narā́ṃ na iha gamyāḥ ||
आणि आमच्यासाठी त्वष्टा आमच्या बाजूकडूनच आमच्याकडे येवो—दीप्तिमान सूरी (नेते) यांच्यासह, आमच्या अंतरंग निवासात आनंद-ऐक्य (सजोषा) सहित। आणि वृत्रहन् इंद्र—जनांचा पालनकर्ता, अत्यंत पराक्रमी—नरांमध्ये, इथे आमच्याकडे येवो.
उ॒त । नः॒ । ई॒म् । त्वष्टा॑ । आ । ग॒न्तु॒ । अच्छ॑ । स्मत् । सू॒रिऽभिः॑ । अ॒भि॒ऽपि॒त्वे । स॒ऽजोषाः॑ । आ । वृ॒त्र॒ऽहा । इन्द्रः॑ । च॒र्ष॒णि॒ऽप्राः । तु॒विःऽत॑मः । न॒राम् । नः॒ । इ॒ह । ग॑म्याः ॥उत । नः । ईम् । त्वष्टा । आ । गन्तु । अच्छ । स्मत् । सूरिभिः । अभिपित्वे । सजोषाः । आ । वृत्रहा । इन्द्रः । चर्षणिप्राः । तुविःतमः । नराम् । नः । इह । गम्याः ॥uta | naḥ | īm | tvaṣṭā | ā | gantu | accha | smat | sūri-bhiḥ | abhi-pitve | sa-joṣāḥ | ā | vṛtra-hā | indraḥ | carṣaṇi-prāḥ | tuviḥ-tamaḥ | narām | naḥ | iha | gamyāḥ