Sukta 1.184
अतारिष्म तमसस्पारमस्य प्रति वां स्तोमो अश्विनावधायि । एह यातं पथिभिर्देवयानैर्विद्यामेषं वृजनं जीरदानुम् ॥
अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॑ वां॒ स्तोमो॑ अश्विनावधायि । एह या॑तं प॒थिभि॑र्देव॒यानै॑र्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
atā́riṣma támasas pā́ram asyá práti vām stómó aśvināv adhāyi | eha yā́taṃ pathíbhir deva-yā́nair vidyā́meṣáṃ vṛjánaṃ jīrá-dānum ||
आम्ही या तमस् (अंधार) याच्या पलीकडे, त्याच्या दूरच्या तीरापर्यंत पार गेलो आहोत; हे अश्विनौ, त्याच्या प्रत्युत्तरार्थ तुमच्यासाठी हा स्तोम (स्तुती-गान) अर्पित व स्थापित झाला आहे. देवयान मार्गांनी येथे या, जेणेकरून आम्ही इष् (प्रेरक/पोषक प्रेरणा), वृजन (अडथळ्याचे निवारण/मार्ग उघडणे) आणि जीरदानु (शीघ्र दान करणारी शक्ती) यांचे ज्ञान मिळवू.
अता॑रिष्म । तम॑सः । पा॒रम् । अ॒स्य । प्रति॑ । वा॒म् । स्तोमः॑ । अ॒श्वि॒नौ॒ । अ॒धा॒यि॒ । आ । इ॒ह । या॒त॒म् । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥अतारिष्म । तमसः । पारम् । अस्य । प्रति । वाम् । स्तोमः । अश्विनौ । अधायि । आ । इह । यातम् । पथिभिः । देवयानैः । विद्याम । इषम् । वृजनम् । जीरदानुम् ॥atāriṣma | tamasaḥ | pāram | asya | prati | vām | stomaḥ | aśvinau | adhāyi | ā | iha | yātam | pathi-bhiḥ | deva-yānaiḥ | vidyāma | iṣam | vṛjanam | jīra-dānum