Sukta 1.118
आ श्येनस्य जवसा नूतनेनास्मे यातं नासत्या सजोषाः । हवे हि वामश्विना रातहव्यः शश्वत्तमाया उषसो व्युष्टौ ॥
आ श्ये॒नस्य॒ जव॑सा॒ नूत॑नेना॒स्मे या॑तं नासत्या स॒जोषा॑: । हवे॒ हि वा॑मश्विना रा॒तह॑व्यः शश्वत्त॒माया॑ उ॒षसो॒ व्यु॑ष्टौ ॥
ā́ śyénasya jávasā nū́tanenā́smé yātaṃ nāsatyā sajóṣāḥ | háve hí vām aśvinā rātáhavyáḥ śaśvattamā́yā uṣáso víuṣṭau ||
हे नासत्यौ! श्येनाच्या नव्या वेगाने, एकचित्त होऊन एकत्र आमच्याकडे या. कारण हव्य अर्पण करणारा यजमान तुम्हाला, हे अश्विनौ, उषेच्या सतत नव्याने प्रकट होणाऱ्या व्युष्टि-क्षणी हाक देतो.
आ । श्ये॒नस्य॑ । जव॑सा । नूत॑नेन । अ॒स्मे इति॑ । य॒त॒म् । ना॒स॒त्या॒ । स॒जोषाः॑ । हवे॑ । हि । वा॒म् । अ॒श्वि॒ना॒ । रा॒तऽह॑व्यः । श॒श्व॒त्ऽत॒मायाः॑ । उ॒षसः॑ । विऽउ॑ष्टौ ॥आ । श्येनस्य । जवसा । नूतनेन । अस्मे इति । यतम् । नासत्या । सजोषाः । हवे । हि । वाम् । अश्विना । रातहव्यः । शश्वत्तमायाः । उषसः । विउष्टौ ॥ā | śyenasya | javasā | nūtanena | asme iti | yatam | nāsatyā | sajoṣāḥ | have | hi | vām | aśvinā | rāta-havyaḥ | śaśvat-tamāyāḥ | uṣasaḥ | vi-uṣṭau