Kalagnirudra
अथ कालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्छ—अधीहि भगवंस्त्रिपुण्ड्रविधिं सतत्त्वं। किं द्रव्यं? कियत्स्थानं? कतिप्रमाणं? का रेखा? के मन्त्राः? का शक्तिः? किं दैवतं? कः कर्ता? किं फलम्? इति च ॥२॥
अथ । कालाग्निरुद्रम् । भगवन्तम् । सनत्-कुमारः । पप्रच्छ । अधीहि । भगवन् । त्रि-पुण्ड्र-विधिम् । स-तत्त्वम् । किम् । द्रव्यम् । कियत्-स्थानम् । कति-प्रमाणम् । का । रेखा । के । मन्त्राः । का । शक्तिः । किम् । दैवतम् । कः । कर्ता । किम् । फलम् । इति । च ॥२॥
atha kālāgnirudraṁ bhagavantaṁ sanatkumāraḥ papraccha—adhīhi bhagavaṁs tripuṇḍra-vidhiṁ sa-tattvaṁ | kiṁ dravyaṁ? kiyat-sthānaṁ? kati-pramāṇaṁ? kā rekhā? ke mantrāḥ? kā śaktiḥ? kiṁ daivataṁ? kaḥ kartā? kiṁ phalam? iti ca ||2||
അപ്പോൾ സനത്കുമാരൻ ഭഗവാൻ കാലാഗ്നിരുദ്രനോട് ചോദിച്ചു—ഭഗവൻ, തത്ത്വസഹിതമായ ത്രിപുണ്ഡ്രവിധി ഉപദേശിക്കണമേ: ദ്രവ്യം എന്ത്? പ്രയോഗസ്ഥലം ഏത്? അളവ് എത്ര? രേഖാരൂപം എങ്ങനേ? ഏത് മന്ത്രങ്ങൾ? ശക്തി എന്ത്? ദൈവതം ഏത്? കർത്താവ് ആര്? ഫലം എന്ത്?॥२॥
Then Sanatkumāra questioned the Blessed Kālāgnirudra: “Teach, O Lord, the procedure for the tripuṇḍra together with its underlying principle. What is the substance? What is the place (of application)? What is the measure? What is the line-form? Which mantras? What power? What deity? Who is the performer? What is the result?”