Sukta 6.17
स नो वाजाय श्रवस इषे च राये धेहि द्युमत इन्द्र विप्रान् । भरद्वाजे नृवत इन्द्र सूरीन्दिवि च स्मैधि पार्ये न इन्द्र ॥
स नो॒ वाजा॑य॒ श्रव॑स इ॒षे च॑ रा॒ये धे॑हि द्यु॒मत॑ इन्द्र॒ विप्रा॑न् । भ॒रद्वा॑जे नृ॒वत॑ इन्द्र सू॒रीन्दि॒वि च॑ स्मैधि॒ पार्ये॑ न इन्द्र ॥
sá no vājā́ya śrávasa íṣe ca rāyé dhéhi dyu-máta índra víprān | bharád-vāje nṛ-váta índra sūrī́n diví ca sma edhi pā́rye na índra ||
ഹേ ഇന്ദ്രാ, ഞങ്ങൾക്ക് ബലസമ്പൂർണ്ണത (വാജ), കീർത്തി (ശ്രവസ്), പ്രേരണം (ഇഷ്) എന്നും അന്തർധനം (റായ) എന്നും ലഭിക്കേണ്ടതിന് ദ്യുമന്തരായ വിപ്രന്മാരെ—പ്രചോദിത ഋഷിമാരെ—നൽകണമേ. ഭരദ്വാജരുടെ വംശത്തിൽ, ഹേ ഇന്ദ്രാ, ഞങ്ങളുടെ പ്രകാശമുള്ള നേതാക്കളായ സൂരിമാരെ വർധിപ്പിക്കണമേ; സ്വർഗ്ഗത്തിലും അതീതലോകത്തിലും ഞങ്ങൾക്ക് തുണയായിരിക്കണമേ, ഹേ ഇന്ദ്രാ.
सः । नः॒ । वाजा॑य । श्रव॑से । इ॒षे । च॒ । रा॒ये । धे॒हि॒ । द्यु॒ऽमतः॑ । इ॒न्द्र॒ । विप्रा॑न् । भ॒रत्ऽवा॑जे । नृ॒ऽवतः॑ । इ॒न्द्र॒ । सू॒रीन् । दि॒वि । च॒ । स्म॒ । ए॒धि॒ । पार्ये॑ । नः॒ । इ॒न्द्र॒ ॥सः । नः । वाजाय । श्रवसे । इषे । च । राये । धेहि । द्युमतः । इन्द्र । विप्रान् । भरत्वाजे । नृवतः । इन्द्र । सूरीन् । दिवि । च । स्म । एधि । पार्ये । नः । इन्द्र ॥saḥ | naḥ | vājāya | śravase | iṣe | ca | rāye | dhehi | dyu-mataḥ | indra | viprān | bharat-vāje | nṛ-vataḥ | indra | sūrīn | divi | ca | sma | edhi | pārye | naḥ | indra