Sukta 6.17
वर्धान्यं विश्वे मरुतः सजोषाः पचच्छतं महिषाँ इन्द्र तुभ्यम् । पूषा विष्णुस्त्रीणि सरांसि धावन्वृत्रहणं मदिरमंशुमस्मै ॥
वर्धा॒न्यं विश्वे॑ म॒रुत॑: स॒जोषा॒: पच॑च्छ॒तं म॑हि॒षाँ इ॑न्द्र॒ तुभ्य॑म् । पू॒षा विष्णु॒स्त्रीणि॒ सरां॑सि धावन्वृत्र॒हणं॑ मदि॒रमं॒शुम॑स्मै ॥
vardhā́nyaṃ víśve marútaḥ sajóṣāḥ pácac chatáṃ mahiṣā́m̐ índra túbhyam | pūṣā́ víṣṇus trī́ṇi sárāṃsi dhāvan vṛtra-háṇaṃ madiráṃ áṃśum asmai ||
ഹേ ഇന്ദ്രാ! സർവ്വ മരുത്തന്മാരും ഏകമനസ്സോടെ നിനക്കായി വർദ്ധന്യമായ പാനം—ബലത്തിന്റെ നൂറളവോളം—പാകം ചെയ്തു. പൂഷനും വിഷ്ണുവും മൂന്നു സരസ്സുകളെ ഓടിച്ചു, അവനുവേണ്ടി മദിരമായ, വൃത്രഹനായ സോമരസത്തിന്റെ അംശുവിനെ പിഴിഞ്ഞെടുത്തു.
वर्धा॑न् । यम् । विश्वे॑ । म॒रुतः॑ । स॒ऽजोषाः॑ । पच॑त् । श॒तम् । म॒हि॒षान् । इ॒न्द्र॒ । तुभ्य॑म् । पू॒षा । विष्णुः॑ । त्रीणि॑ । सरां॑सि । धा॒व॒न् । वृ॒त्र॒ऽहन॑म् । म॒दि॒रम् । अं॒शुम् । अ॒स्मै॒ ॥वर्धान् । यम् । विश्वे । मरुतः । सजोषाः । पचत् । शतम् । महिषान् । इन्द्र । तुभ्यम् । पूषा । विष्णुः । त्रीणि । सरांसि । धावन् । वृत्रहनम् । मदिरम् । अंशुम् । अस्मै ॥vardhān | yam | viśve | marutaḥ | sa-joṣāḥ | pacat | śatam | mahiṣān | indra | tubhyam | pūṣā | viṣṇuḥ | trīṇi | sarāṃsi | dhāvan | vṛtra-hanam | madiram | aṃśum | asmai