Sukta 10.101
कपृन्नरः कपृथमुद्दधातन चोदयत खुदत वाजसातये । निष्टिग्र्यः पुत्रमा च्यावयोतय इन्द्रं सबाध इह सोमपीतये ॥
कपृ॑न्नरः कपृ॒थमुद्द॑धातन चो॒दय॑त खु॒दत॒ वाज॑सातये । नि॒ष्टि॒ग्र्य॑: पु॒त्रमा च्या॑वयो॒तय॒ इन्द्रं॑ स॒बाध॑ इ॒ह सोम॑पीतये ॥
kapṛnnaraḥ kapṛtham uddadhātana codayata khudata vājasātaye | niṣṭigryaḥ putram ā cyāvayūtaya indraṃ sabādha iha somapītaye ||
ഹേ പ്രവർത്തകരേ, പ്രവർത്തിയെ ഉയർത്തി മുന്നോട്ടു നീക്കുവിൻ; പ്രേരിപ്പിക്കുവിൻ, കുഴിക്കുവിൻ—വാജസാതി (സമൃദ്ധി-വിജയം) നേടുവാൻ. ഹേ നിഷ്ടിഗ്ര്യ, സഹായത്തിനായി നിന്റെ പുത്രനെ ഉണർത്തുക—സബാധ (സഹചർ) സഹിതം ഇന്ദ്രനെ ഇവിടെ സോമപാനത്തിനായി കൊണ്ടുവരിക.
कपृ॑त् । न॒रः॒ । क॒पृ॒थम् । उत् । द॒धा॒त॒न॒ । चो॒दय॑त । खु॒दत॑ । वाज॑ऽसातये । नि॒ष्टि॒ग्र्यः॑ । पु॒त्रम् । आ । च्या॒व॒य॒ । ऊ॒तये॑ । इन्द्र॑म् । स॒ऽबाधः॑ । इ॒ह । सोम॑ऽपीतये ॥कपृत् । नरः । कपृथम् । उत् । दधातन । चोदयत । खुदत । वाजसातये । निष्टिग्र्यः । पुत्रम् । आ । च्यावय । ऊतये । इन्द्रम् । सबाधः । इह । सोमपीतये ॥kapṛt | naraḥ | kapṛtham | ut | dadhātana | codayata | khudata | vāja-sātaye | niṣṭigryaḥ | putram | ā | cyāvaya | ūtaye | indram | sa-bādhaḥ | iha | soma-pītaye