Soma Pacifies the Pracetās; Dakṣa’s Haṁsa-guhya Prayers; Hari Grants Creative Power
श्रीशुक उवाच इति स्तुत: संस्तुवत: स तस्मिन्नघमर्षणे । प्रादुरासीत्कुरुश्रेष्ठ भगवान् भक्तवत्सल: ॥ ३५ ॥ कृतपाद: सुपर्णांसे प्रलम्बाष्टमहाभुज: । चक्रशङ्खासिचर्मेषुधनु:पाशगदाधर: ॥ ३६ ॥ पीतवासा घनश्याम: प्रसन्नवदनेक्षण: । वनमालानिवीताङ्गो लसच्छ्रीवत्सकौस्तुभ: ॥ ३७ ॥ महाकिरीटकटक: स्फुरन्मकरकुण्डल: । काञ्च्यङ्गुलीयवलयनूपुराङ्गदभूषित: ॥ ३८ ॥ त्रैलोक्यमोहनं रूपं बिभ्रत् त्रिभुवनेश्वर: । वृतो नारदनन्दाद्यै: पार्षदै: सुरयूथपै: । स्तूयमानोऽनुगायद्भि: सिद्धगन्धर्वचारणै: ॥ ३९ ॥
śrī-śuka uvāca iti stutaḥ saṁstuvataḥ sa tasminn aghamarṣaṇe prādurāsīt kuru-śreṣṭha bhagavān bhakta-vatsalaḥ
ശ്രീശുകദേവൻ പറഞ്ഞു—ദക്ഷൻ ഇങ്ങനെ സ്തുതിച്ചപ്പോൾ ഭക്തവത്സലനായ ഭഗവാൻ ഹരി അഘമർഷണ എന്ന പുണ്യസ്ഥാനത്ത് പ്രത്യക്ഷനായി, ഹേ കുരുശ്രേഷ്ഠ പരീക്ശിത്।