Atharvashiras
योऽग्नौ रुद्रो योऽप्स्वन्तर्य ओषधीर्वीरुध आविवेश ।
य इमा विश्वा भुवनानि चक्लृपे तस्मै रुद्राय नमोऽस्त्वग्नये ।
यो रुद्रोऽग्नौ यो रुद्रोऽप्स्वन्तर्यो ओषधीर्वीरुध आविवेश ।
यो रुद्र इमा विश्वा भुवनानि चक्लृपे तस्मै रुद्राय नमो नमः ।
यो रुद्रोऽप्सु यो रुद्र ओषधीषु यो रुद्रो वनस्पतिषु ।
येन रुद्रेण जगदूर्ध्वं धारितं पृथिवी द्विधा त्रिधा धर्ता धारिता नागा येऽन्तरिक्षे तस्मै रुद्राय वै नमो नमः ।
मूर्धानमस्य संसेव्याप्यथर्वा हृदयं च यत् ।
मस्तिष्कादूर्ध्वं प्रेरयत्यवमानोऽधिशीर्षतः ।
तद्वा अथर्वणः शिरो देवकोशः समुज्झितः ।
तत्प्राणोऽभिरक्षति शिरोऽन्तमथो मनः ।
न च दिवो देवजनेन गुप्ता न चान्तरिक्षाणि न च भूम इमाः ।
यस्मिन्निदं सर्वमोतप्रोतं तस्मादन्यन्न परं किञ्चनास्ति ।
न तस्मात्पूर्वं न परं तदस्ति न भूतं नोत भव्यं यदासीत् ।
सहस्रपादेकमूर्ध्ना व्याप्तं स एवेदमावरीवर्ति भूतम् ।
अक्षरात्संजायते कालः कालाद्व्यापक उच्यते ।
व्यापको हि भगवान् रुद्रो भोगायमनो यदा शेते रुद्रस्तदा संहार्यते प्रजाः ।
उच्छ्वासिते तमो भवति तमस आपोऽप्स्वङ्गुल्या मथिते मथितं शिशिरे शिशिरं मथ्यमानं फेनं भवति फेनादण्डं भवत्यण्डाद्ब्रह्मा भवति ब्रह्मणो वायुः वायोरोङ्कारः ।
ॐकारात्सावित्री सावित्र्या गायत्री गायत्र्या लोका भवन्ति ।
अर्चयन्ति तपः सत्यं मधु क्षरन्ति यद्भुवम् ।
एतद्धि परमं तपः ।
आपोऽज्योती रसोऽमृतं ब्रह्म भूर्भुवः स्वरो नम इति ॥६॥
यः । अग्नौ । रुद्रः । यः । अप्सु । अन्तर्यः । ओषधीः । वीरुधः । आविवेश ।
यः । इमाः । विश्वाः । भुवनानि । चक्लृपे । तस्मै । रुद्राय । नमः । अस्तु । अग्नये ।
यः । रुद्रः । अग्नौ । यः । रुद्रः । अप्सु । अन्तर्यः । ओषधीः । वीरुधः । आविवेश ।
यः । रुद्रः । इमाः । विश्वाः । भुवनानि । चक्लृपे । तस्मै । रुद्राय । नमः । नमः ।
यः । रुद्रः । अप्सु । यः । रुद्रः । ओषधीषु । यः । रुद्रः । वनस्पतिषु ।
येन । रुद्रेण । जगत् । ऊर्ध्वम् । धारितम् । पृथिवी । द्विधा । त्रिधा । धर्ता । धारिता । नागाः । ये । अन्तरिक्षे । तस्मै । रुद्राय । वै । नमः । नमः ।
मूर्धानम् । अस्य । संसेव्य । अपि । अथर्वा । हृदयम् । च । यत् ।
मस्तिष्कात् । ऊर्ध्वम् । प्रेरयति । अवमानः । अधिशीर्षतः ।
तत् । वा । अथर्वणः । शिरः । देवकोशः । समुज्झितः ।
तत् । प्राणः । अभिरक्षति । शिरः-अन्तम् । अथो । मनः ।
न । च । दिवः । देवजनेन । गुप्ताः । न । च । अन्तरिक्षाणि । न । च । भूमिः । इमाः ।
यस्मिन् । इदम् । सर्वम् । ओत-प्रोतम् । तस्मात् । अन्यत् । न । परम् । किञ्चन । अस्ति ।
न । तस्मात् । पूर्वम् । न । परम् । तत् । अस्ति । न । भूतम् । न । उत । भव्यम् । यत् । आसीत् ।
सहस्रपात् । एक-मूर्ध्ना । व्याप्तम् । सः । एव । इदम् । आवरीवर्ति । भूतम् ।
अक्षरात् । संजायते । कालः । कालात् । व्यापकः । उच्यते ।
व्यापकः । हि । भगवान् । रुद्रः । भोगाय । मनः । यदा । शेते । रुद्रः । तदा । संहार्यते । प्रजाः ।
उच्छ्वासिते । तमः । भवति । तमसः । आपः । अप्सु । अङ्गुल्या । मथिते । मथितम् । शिशिरे । शिशिरम् । मथ्यमानम् । फेनम् । भवति । फेनात् । अण्डम् । भवति । अण्डात् । ब्रह्मा । भवति । ब्रह्मणः । वायुः । वायोः । ओङ्कारः ।
ॐकारात् । सावित्री । सावित्र्याः । गायत्री । गायत्र्याः । लोकाः । भवन्ति ।
अर्चयन्ति । तपः । सत्यम् । मधु । क्षरन्ति । यत्-भुवम् ।
एतत् । हि । परमम् । तपः ।
आपः । ज्योतिः । रसः । अमृतम् । ब्रह्म । भूः । भुवः । स्वः । नमः । इति ।
yo’gnau rudro yo’psv antarya oṣadhīr vīrudha āviveśa |
ya imā viśvā bhuvanāni cakḷpe tasmai rudrāya namo’stv agnaye |
yo rudro’gnau yo rudro’psv antaryo oṣadhīr vīrudha āviveśa |
yo rudra imā viśvā bhuvanāni cakḷpe tasmai rudrāya namo namaḥ |
yo rudro’psu yo rudra oṣadhīṣu yo rudro vanaspatiṣu |
yena rudreṇa jagad ūrdhvaṃ dhāritaṃ pṛthivī dvidhā tridhā dhartā dhāritā nāgā ye’ntarikṣe tasmai rudrāya vai namo namaḥ |
mūrdhānam asya saṃsevya apy atharvā hṛdayaṃ ca yat |
mastiṣkād ūrdhvaṃ prerayaty avamāno’dhiśīrṣataḥ |
tad vā atharvaṇaḥ śiro devakośaḥ samujjhitaḥ |
tat prāṇo’bhirakṣati śiro’ntam atho manaḥ |
na ca divo devajanena guptā na cāntarikṣāṇi na ca bhūm imāḥ |
yasminn idaṃ sarvam ota-protaṃ tasmād anyan na paraṃ kiñcanāsti |
na tasmāt pūrvaṃ na paraṃ tad asti na bhūtaṃ nota bhavyaṃ yad āsīt |
sahasrapād ekamūrdhnā vyāptaṃ sa evedam āvarīvarti bhūtam |
akṣarāt saṃjāyate kālaḥ kālād vyāpaka ucyate |
vyāpako hi bhagavān rudro bhogāya mano yadā śete rudras tadā saṃhāryate prajāḥ |
ucchvāsite tamo bhavati tamasa āpo’psv aṅgulyā mathite mathitaṃ śiśire śiśiraṃ mathyamānaṃ phenaṃ bhavati phenād aṇḍaṃ bhavaty aṇḍād brahmā bhavati brahmaṇo vāyuḥ vāyor oṅkāraḥ |
oṃkārāt sāvitrī sāvitr yā gāyatrī gāyatryā lokā bhavanti |
arcayanti tapaḥ satyaṃ madhu kṣaranti yad-bhuvam |
etad dhi paramaṃ tapaḥ |
āpo’jyotī raso’mṛtaṃ brahma bhūr bhuvaḥ svaḥ namo iti ||6||
ຣຸດຣະຜູ້ສະຖິດໃນໄຟ, ຣຸດຣະຜູ້ເປັນອັນຕະຣະຍາມີຢູ່ໃນນ້ຳ, ຜູ້ເຂົ້າໄປສູ່ສະຫມຸນໄພແລະພືດທັງຫຼາຍ—ພຣະອົງຜູ້ຈັດວາງໂລກທັງປວງນີ້: ຂໍນະມັດສະການແດ່ຣຸດຣະນັ້ນ; ຂໍນະມັດສະການແດ່ອັກນີດ້ວຍ. ຣຸດຣະຢູ່ໃນໄຟ, ຣຸດຣະຜູ້ສະຖິດພາຍໃນນ້ຳ, ຜູ້ເຂົ້າໄປໃນໂອສະທີແລະພືດ—ຣຸດຣະຜູ້ປັ້ນແຕ່ງພູວະນະທັງປວງ: ຂໍນະມັດສະການ, ຂໍນະມັດສະການ. ຣຸດຣະຢູ່ໃນນ້ຳ, ຣຸດຣະຢູ່ໃນສະຫມຸນໄພຢາ, ຣຸດຣະຢູ່ໃນຕົ້ນໄມ້; ໂດຍຣຸດຣະນັ້ນ ຈັກກະວານຖືກຄ້ຳຈຸນໃຫ້ສູງຂຶ້ນ, ແຜ່ນດິນຖືກທອງໄວ້ເປັນສອງແລະເປັນສາມ; ທັງຜູ້ຄ້ຳຈຸນແລະສິ່ງທີ່ຖືກຄ້ຳຈຸນ, ນາກາທີ່ຢູ່ໃນອາກາດກາງ—ຂໍນະມັດສະການແດ່ຣຸດຣະນັ້ນແທ້ໆ, ຂໍນະມັດສະການ. ອະຖະວັນກ່າວວ່າ: ຈົ່ງບຳເນົາຮັບໃຊ້ພຣະເສຍະ ແລະພຣະຫົວໃຈດ້ວຍ; ຈາກສະມອງຂຶ້ນໄປ ພຣະອົງຊັກນຳໃຫ້ເຄື່ອນ, ແລະຈາກເທິງສະຫຼອງພຣະເສຍະ ພຣະອົງກຳກັບຫຼັກທີ່ເອີ້ນວ່າ ‘ຕ່ຳ’. ນັ້ນແມ່ນສິຣະຂອງອະຖະວັນ—ເປັນປອກຫຸ້ມທິບທີ່ຖືກປ່ອຍອອກ; ປຣານະປົກປ້ອງປາຍສິຣະນັ້ນ ແລະມະນະກໍດ້ວຍ. ຟ້າບໍ່ໄດ້ຖືກປິດບັງໂດຍຫມູ່ເທວະ, ບໍ່ແມ່ນອາກາດກາງ, ບໍ່ແມ່ນແຜ່ນດິນນີ້; ຜູ້ທີ່ທຸກສິ່ງຖືກຖັກທໍເຂົ້າແລະຖັກທໍອອກຢູ່ໃນພຣະອົງ—ເຫນືອກວ່າພຣະອົງບໍ່ມີສິ່ງໃດ. ກ່ອນພຣະອົງບໍ່ມີຫຍັງ, ຫຼັງພຣະອົງບໍ່ມີຫຍັງ; ບໍ່ແມ່ນອະດີດ ບໍ່ແມ່ນອະນາຄົດ—ບໍ່ມີຢູ່ແຍກຈາກພຣະອົງ. ມີພັນຕີນ ແລະຫົວດຽວ ແຜ່ຊາຍທົ່ວ—ພຣະອົງເທົ່ານັ້ນຫຸ້ມຫໍ້ພາວະທີ່ປາກົດ. ເວລາເກີດຈາກອັກສະຣະອັນບໍ່ເສື່ອມ; ຈາກເວລາ ພຣະອົງຖືກເອີ້ນວ່າ ‘ຜູ້ແຜ່ທົ່ວ’. ເພາະພຣະພະຄະວານ ຣຸດຣະແມ່ນຜູ້ແຜ່ທົ່ວ. ເມື່ອຈິດນອນລົງເພື່ອເສວຍສຸກ ເມື່ອນັ້ນຣຸດຣະທຳໃຫ້ສັດທັງຫຼາຍລະລາຍສູນ. ເມື່ອພຣະອົງຫາຍໃຈອອກ ຄວາມມືດເກີດ; ຈາກຄວາມມືດເກີດນ້ຳ. ໃນນ້ຳ ເມື່ອກວນດ້ວຍນິ້ວ ສິ່ງທີ່ກວນກາຍເປັນຄວາມເຢັນ; ຄວາມເຢັນເມື່ອຖືກກວນຕໍ່ ກາຍເປັນຟອງ; ຈາກຟອງເກີດໄຂ່; ຈາກໄຂ່ເກີດພຣະພຣະຫມາ; ຈາກພຣະພຣະຫມາເກີດວາຍຸ; ຈາກວາຍຸເກີດໂອງກາຣ. ຈາກໂອງກາຣເກີດສາວິຕຣີ; ຈາກສາວິຕຣີເກີດຄາຍະຕຣີ; ຈາກຄາຍະຕຣີໂລກທັງຫຼາຍເກີດ. ເຂົາທັງຫຼາຍບູຊາຕະປະ ແລະຄວາມຈິງ; ເຮັດໃຫ້ນ້ຳເຜິ້ງໄຫຼ—ນັ້ນຄື ‘ພູ’ (ແຜ່ນດິນ) ນີ້. ນີ້ແມ່ນຕະປະສູງສຸດ: ນ້ຳແມ່ນແສງ, ແມ່ນສານະສຳຄັນ, ແມ່ນອະມະຕະ; ແມ່ນພຣະພຣະຫມັນ; ແມ່ນ Bhūḥ, Bhuvaḥ, Svaḥ; ‘ນະມະ’—ດັ່ງນີ້.
Rudra who is in fire, Rudra who is the inner one in the waters, who has entered the herbs and plants—he who has fashioned all these worlds: to that Rudra, homage; homage to Agni. Rudra who is in fire, Rudra who is the inner one in the waters, who has entered the herbs and plants—Rudra who has fashioned all these worlds: to that Rudra, homage, homage. Rudra who is in the waters, Rudra who is in the medicinal herbs, Rudra who is in the trees; by that Rudra the universe is upheld aloft; the earth is upheld in twofold and threefold ways; the supporters and the supported, the nāgas who are in the midspace—to that Rudra indeed, homage, homage. Having attended upon his head, and also (upon) the heart—so Atharvan (declares). From the brain upward he impels, the ‘lower’ (principle) from above the head. That, indeed, is Atharvan’s head: a divine sheath, cast forth. Prāṇa protects that end of the head, and also the mind. Not the heaven is concealed by the host of gods, nor the midspaces, nor this earth. In whom all this is woven in and woven out—beyond him there is nothing whatsoever. Before him there is nothing; after him there is nothing; neither what has been nor what will be—(none of that) existed (apart from him). With a thousand feet, with one head, pervading—he alone turns about (encompasses) this manifested being. From the Imperishable (akṣara) time is born; from time he is called the Pervader. For the Blessed Rudra is the Pervader. When the mind lies down for enjoyment, then Rudra causes the creatures to be dissolved. When he exhales, darkness comes to be; from darkness, waters. In the waters, when churned with a finger, what is churned becomes cold; the cold, when being churned, becomes foam; from foam an egg arises; from the egg Brahmā arises; from Brahmā, Vāyu; from Vāyu, the Oṅkāra. From Oṅkāra, Sāvitrī; from Sāvitrī, Gāyatrī; from Gāyatrī, the worlds arise. They worship austerity and truth; honey they cause to flow—(that) which is the earth. This indeed is the supreme austerity: the waters are light, essence, immortality; (they are) Brahman; (they are) Bhūḥ, Bhuvaḥ, Svaḥ; ‘homage’—thus.