Arunika
ॐ आरुणिः प्राजापत्यः प्रजापतेर्लोकं जगाम। तं गत्वोवाच— केन भगवन् कर्माण्यशेषतो विसृजामीति। तं होवाच प्रजापतिः— तव पुत्रान् भ्रातॄन् बन्ध्वादीन् शिखां यज्ञोपवीतं यागं स्वाध्यायं भूर्लोकं भुवर्लोकं स्वर्लोकं महर्लोकं जनोलोकं तपोलोकं सत्यलोकं चातलतलातलवितलसुतलरसातलमहातलपातालं ब्रह्माण्डं च विसृजेत्। दण्डमाच्छादनं चैव कौपीनं च परिग्रहेत्। शेषं विसृजेदिति॥१॥
ॐ । आरुणिः । प्राजापत्यः । प्रजापतेः । लोकम् । जगाम । तम् । गत्वा । उवाच । केन । भगवन् । कर्माणि । अशेषतः । विसृजामि । इति । तम् । ह । उवाच । प्रजापतिः । तव । पुत्रान् । भ्रातॄन् । बन्धु-आदीन् । शिखाम् । यज्ञोपवीतम् । यागम् । स्वाध्यायम् । भूः-लोकम् । भुवः-लोकम् । स्वः-लोकम् । महः-लोकम् । जनः-लोकम् । तपः-लोकम् । सत्य-लोकम् । च । अतल । तलातल । वितल । सुतल । रसातल । महातल । पातालम् । ब्रह्माण्डम् । च । विसृजेत् । दण्डम् । आच्छादनम् । च । एव । कौपीनम् । च । परिग्रहेत् । शेषम् । विसृजेत् । इति ॥१॥
oṁ āruṇiḥ prājāpatyaḥ prajāpater lokaṁ jagāma | taṁ gatvovāca— kena bhagavan karmāṇy aśeṣato visṛjāmīti | taṁ hovāca prajāpatiḥ— tava putrān bhrātṝn bandhva-ādīn śikhāṁ yajñopavītaṁ yāgaṁ svādhyāyaṁ bhūr-lokaṁ bhuvar-lokaṁ svar-lokaṁ maharlokaṁ janalokaṁ tapolokaṁ satyalokaṁ cātala-talātala-vitala-sutala-rasātala-mahātala-pātālaṁ brahmāṇḍaṁ ca visṛjet | daṇḍam ācchādanaṁ caiva kaupīnaṁ ca parigrahet | śeṣaṁ visṛjed iti ||1||
ໂອມ. ອາຣຸນິ ຜູ້ສືບສາຍຈາກ ປຣາຊາປະຕິ ໄດ້ໄປຍັງໂລກຂອງ ປຣາຊາປະຕິ. ເມື່ອໄປຮອດແລ້ວ ທ່ານກ່າວວ່າ: «ຂ້າແຕ່ພຣະຜູ້ເປັນມົງຄຸນ, ດ້ວຍວິທີໃດຂ້ອຍຈຶ່ງສາມາດປ່ອຍວາງກຳທັງປວງໄດ້?» ປຣາຊາປະຕິກ່າວວ່າ: «ຈົ່ງສະລະລູກ ພີ່ນ້ອງ ແລະຍາດມິດ; ສະລະຈຸກຜົມ, ສາຍຍັດ (ຍັຊໂຍປະວີຕ), ພິທີບູຊາ, ການສວາດຢາຍ; ສະລະໂລກ—ພູ, ພຸວ, ສະວ, ມະຫັດ, ຊະນະ, ຕະປະ, ສັດຕະຍະ—ແລະ ອະຕະລະ ຕະລາຕະລະ ວິຕະລະ ສຸຕະລະ ຣະສາຕະລະ ມະຫາຕະລະ ປາຕາລະ ພ້ອມທັງພຣະພົບທັງປວງ (ບຣະຫມານະດ). ຈົ່ງຖືດ້າມໄມ້, ຜ້າຄຸມ, ແລະຜ້າຄາດແອວ. ສ່ວນທີ່ເຫຼືອ ຈົ່ງປ່ອຍວາງ.»
Oṁ. Āruṇi, the descendant of Prajāpati, went to the world of Prajāpati. Having gone, he said: “By what means, O Blessed One, may I abandon actions entirely?” Prajāpati said to him: “Let him relinquish his sons, brothers, and other relatives; the topknot, the sacred thread, sacrifice, Vedic recitation, the worlds—Bhūḥ, Bhuvaḥ, Svaḥ, Mahas, Jana, Tapas, Satya—and also Atala, Talātala, Vitala, Sutala, Rasātala, Mahātala, Pātāla, and the cosmic egg (brahmāṇḍa). Let him take up a staff, a covering-cloth, and a loincloth. Let him relinquish the rest.”