म॒हाँ२ इन्द्रो॑ नृ॒वदा च॑र्षणि॒प्रा उ॒त द्वि॒बर्हा॑ अमि॒नः सहो॑भिः । अ॒स्म॒द्र॒य्ग्वावृधे वी॒र्या॒यो॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत् । उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा
mahā́ṃ̐ índro nṛvádā carṣaṇiprā́ utá dvibárhā amínaḥ sáhobhiḥ | asmádrayíṃ vāvṛdhe vīryā̀yorúḥ pṛthúḥ sukṛ́taḥ kartṛ́bhir bhūt | upayā́ma-gṛhīto ’si mahéndrāya tvaiṣá te yóniḥ mahéndrāya tvā
Great is Indra, praised of men, sustaining the peoples; yea, double-exalted, undiminished in his might. He hath increased our wealth for heroism; wide, broad, well-wrought by the doers let it be. ‘Thou art taken with an upayāma for great Indra; this is thy womb: for great Indra.’
म॒हान् । इन्द्रः॑ । नृ॒-वदा॑ । च॒र्ष॒णि॒-प्राः । उ॒त । द्वि॒-बर्॒हाः । अ॒मि॒नः । सहो॑भिः । अ॒स्मत् । र॒यिम् । वा॒वृ॒धे॒ । वी॒र्या॑य । उ॒रुः । पृ॒थुः । सु॒कृ॑तः । क॒र्तृभिः॑ । भू॒त् । उ॒प॒या॒म-गृ॑हीतः । अ॒सि॒ । महे॒न्द्राय॑ । त्वा॒ । ए॒षः । ते॒ । योनि॑ः । महे॒न्द्राय॑ । त्वा॒